SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । — रहस्त्वदुत्सङ्गनिषण्णमूर्द्धा स्मरामि वानीरगृहेषु सुप्तम् ॥ १९६ ॥" अत्र वानीरगृहदर्शनाद् रामस्य पूर्वानुभूतसुप्तस्मृतिः । इहे च वस्त्वन्तरमसदृशमेव गृह्यते । सदृशदर्शनाद् वस्त्वन्तरस्मृतौ हि स्मरणालङ्कारो वक्ष्यते । प्रणिधानाद् यथा-'अहो ! कोपेऽपि कान्तं मुखम् ' इति । एवमन्यदपि ज्ञेयम् ॥ ४८ ॥ ___ अथ निर्वेदःनिर्वेदस्तत्त्वबोधादिजन्यः सङ्गोज्झनादिकृत् । तत्त्वज्ञान-रोगाधिक्षेप-ताडन-दारियादिप्रसूतिनिर्वेदो मनःखेदः । स च सङ्गत्याग-निःश्वसित-रुदितादीनि करोति । यथा" जरा-मरण-दौर्गत्य-व्याधयस्तावदासताम् । मन्ये जन्मादि(पि) धीराणां भूयो भूयस्त्रपाकरम् ॥ १९७ ॥" अथ मोहःप्रहारादिप्रसूतात्मा मोहोऽङ्गभ्रमणादिकृत् ॥ १९॥ प्रहार-मत्सर-भय-दैवोपघातादिदुःखहेतुभिः प्रियसङ्गमादिसुखहेतुभिश्च जनितस्वरूपो मोहश्चित्तस्य मूढत्वम् । स चाङ्गभ्रमण-घूर्णन-पतन-सर्वेन्द्रियप्रलयादीनि करोति । यथा.-' तीव्राभिषङ्गप्रभवेन वृत्तिम् ' इत्यादि । यथा वा"कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद्वासः श्लथमेखलागुणधृतं किश्चिनितम्बे स्थितम् । एतावत् सखि ! वेनि साम्प्रतमहं तस्याङ्गसङ्गे पुन: कोऽसौ काऽस्मि रतं नु किं कथमिति स्वल्पापि मे न स्मृतिः।" अथ गर्व:असूयादिप्रसूर्गर्वो विद्यादिविहितोन्नतिः। १ भ. इह ३० । २ प. ऽद्भुतं । १२ For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy