________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । *" चिंता णियदइयसमागममि कयमन्नुआइ मरिऊण । सुबं कलहायंती सहीहिं रुषा न उण हसिआ ॥ १९१ ॥"
अथ त्रास:निर्घातादिभवस्त्रासो गात्रसङ्कोचनादिकृत् ॥ १६ ॥ निर्यात गर्जित--भू--पर्वतकम्प-विद्युत्पातादिभ्यश्चित्तचमत्काररूपस्नासो भयात् पूर्वापरविचारवतो भिन्न एव । सर्वाङ्गसङ्कोच-स्तम्भ-गद्गद-प्रलोपो. स्कम्पादीनि करोति । यथा" परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥१९२॥"४६
अथास्यापरोत्कर्षादिजाऽसूया स्यादवज्ञाऽऽदिकारिणी। परस्य सौभाग्यैश्वर्य-विद्याऽऽदिमिरुत्कर्षादपराध-मुहुद्देषादिम्यश्च जायमानाऽधमारूपाऽस्या । सा चावज्ञा-प्रकुटि-क्रोध-से?क्तिविलोकित-दोषापवर्णनादीनि करोति । यथा" वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तुं हुं वर्तते
सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्ती हि ये। यानि त्रीणि कुतो मुखान्यपि पदान्यासन् खरायोधने यद्वा कौशलमिन्द्रसूनुनिघने तत्राप्यभिज्ञो जनः ।। १९३ ॥"
अथ निद्रा
*चिन्ता निजदयितसमागमे कृतमन्युकया भृत्वा । शून्यं कलहायन्ती सखीभी रुदिता न पुनह सिता ।।
१ अ. णिभदइस०, व. तामणियदय० । २ न. प्रलयो०। ३ व. ०ठन्ति । ४ क. हिते, अ. महाहितो । ५. •णि मु०।
For Private And Personal Use Only