SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । " द्वित्रैः पाणिसरोरुहं त्रिचतुरैर्धम्मिल्लमाल्यस्रजः कण्ठान्मौक्तिकवरीस्तदनु च क्षिप्ताः पदैः पञ्चषैः । हित्वा भारपरम्परामिति जवात् त्वां देव ! संवीक्षितुं तन्वङ्गी निरपायमध्वनि मुहुः श्रोणीभरं निन्दति ॥ १८५ ॥ "" अथ वितर्क:वितर्कः संशयादिभ्यः शिरःकम्पादिकारणम् ॥ ४४ ॥ संशय-विमर्श - विप्रतिपन्यादिभ्य ऊहविशेषो वितर्कः । स च शिरःकम्पभ्रूत्क्षेपादीनां कारणम् । यथा ८५ " चित्ते निवेश्य परिकल्पित सच्च योगाद् रूपोश्चयेन घटिता मनसा कृता नु । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः || १८६ ।। ४४ ॥ अथ मृति:जाता व्याध्यभिघाताभ्यां कृशतादिकरी मृतिः । व्याधिर्ज्वरादिः, सर्प - विष - शस्त्र - गजादिसम्भवोऽभिघातस्ताभ्यां जाता मृतिर्मृत्योः प्रागवस्था; साक्षान्मृतौ त्वनुभावाभावात् । सा च व्याधिजा हिकाश्वासादीन्यभिघातजा तु कार्श्य - वेपथु- दाहादीनि करोति । तत्र व्याधिजायां न तथा चमत्कार इतीयं नोदाहृता । अभिघातजा यथा For Private And Personal Use Only 97 “ स गतः क्षितिमुष्णशोणितार्द्रा खुरदंष्ट्रा ग्रनिपातदारिताश्मा | असुभिः क्षणमीक्षिनेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे ॥ १८७ ॥ शृङ्गारे तु मरणाध्यवसाय मरणादूर्ध्व झटिति पुनर्योगो वा निबध्यते । अन्यत्र तु स्वेच्छा | तत्र मरणाध्यवसायो यथा १ प. हत्वा । २ प ०त्र स्वे० ।
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy