________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलद्वारमहोदधौ " कश्चित् कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् । रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयाञ्चकार ॥ १८२ ॥"४२॥
अथोन्माद:उन्मादो विप्रयोगादेरनिमित्तस्मितादिसूः। इष्टविप्रयोग-धननाश-ग्रहादेश्चित्तविप्लव उन्मादः । स चानिमित्तस्मितरुदित-गीत-नृत्तासम्बद्धप्रलापादीनि सूते । यथा
" श्यामा श्यामलिमानमानयत भोः ! सान्द्रमपीकूर्चकै__ मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम् । चन्द्रं चूर्णयत क्षणाच कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ।। १८३ ॥"
अथ व्याधिःविरहादेर्मनस्तापो व्याधिः त्रस्ताङ्गताऽऽदिकृत् ॥४३॥ विरहाभिलाषादिभ्यो मनस्तापो व्याधिः । स च स्रस्ताङ्गता-मुखशोषगात्रविक्षेपादीनि करोति । यथा" स्थितमुरसि विशालं पमिनीपत्रमेतत्
कथयति न तथाऽन्तर्मन्मथोत्थामवस्थाम् ।। अतिशयपरितापस्तापिताभ्यां यथाऽस्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति ।। १८४ ॥" ४३ ।।
अथौत्सुक्यम्स्वरादिकरमौत्सुक्यमिष्टानुस्मरणादिजम् ।
इष्टानुस्मरण-दर्शनादेविलम्बासहत्वमौत्सुक्यम् । त्वरा-निःश्वसितोच्चसित-कार्यादीनि करोति । यथा
१ अ. व. हित । २ प. व्य भोः।
..
.
.
For Private And Personal Use Only