________________
Shri Mahavir Jain Aradhana Kendra
ર
www.kobatirth.org
अलङ्कारमहोदधौ
उपायाभाव - नाशादिभ्यः संजातात् कार्यभङ्गादेर्मनः पीडा विषादः । स च सहायान्वेषणोपायचिन्तनोत्साहमङ्गादीनि करोति । यथा
Acharya Shri Kailassagarsuri Gyanmandir
" व्यर्थ यत्र कपीन्द्रसख्यमपि मे क्लेशः कपीनां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि । मार्ग यत्र न विश्वकर्म तनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया क्वापि मे ।। १७७ ।। " अथ ग्लानि:व्याध्यादिविहिता ग्लानिर्वैवर्ण्यप्रभृतिप्रसूः ॥ ४० ॥ व्याधि-निद्राच्छेदोपवासाध्वलङ्घनादिभिर्विहिता बलापचयरूपा ग्लानिः । सा च वैवर्ण्य - श्रामनेत्र - कपोलोक्ति-लथाङ्गत्वादीनि प्रसूते । यथा
" किसलयमिव सुग्धं बन्धनाद् विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं
27
शरदिज इव धर्मः केतकीगर्भपत्रम् ॥ १७८ ॥
अथालस्यम्—
निद्रादिकरमालस्यं श्रमादिरचितोदयम् ।
श्रम - सौहित्य - मदादिजनितोदयं क्रियासु शिथिलत्वमालस्यम् । तच निद्रा - सर्वकर्मविद्वेष - शयनासनादीनि करोति । यथा
४० ॥
*" घरिणिघणत्थणपेलणसुहिल्लिपडिअस्स होतपहिर्यस्स । अवसउणंगारय-वार- विट्ठदिअहा सुहायंति ॥ १७९ ॥ "
* गृहिणीघनस्तनप्रेरणसुख के लिपतितस्य भवत्पथिकस्य । अपशकुनाङ्गारक - वार - विष्टिदिवसाः सुखायन्ते ||
१ प. प्रसूयते । २ प. किशन० । ३ अ. ०गन्धप० । ४ अ ०अस्स |
For Private And Personal Use Only