________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । *" सहसा मा साहिजउ पिआगमो तीइ विरहकिसिआए । अञ्चंतपहरिसेणावि जा मया सा मय चेव ॥ १७४ ॥" ३८ ॥
- अथ जाड्यम्तूष्णीम्भावादिकृज्जाड्यमिष्टानिष्टेक्षणादिजम् । इष्टानिष्टदर्शन-श्रवण-स्मरण-व्याध्यादिजातं क्रियास्वपाटवं जाड्यम् । तच्च तूष्णीम्भावानिमिषनयननिरीक्षणादीनि करोति । यथा" शिथिलशिथिलं न्यस्य स्वैरं धनुःशिखरे शिरो
नयनसलिलैः कुर्वन् मौलितामपरामिव । अहह ! विकलः श्रुत्वा श्रुत्वा धनस्तनितध्वनि किमपि किमपि ध्यायन्नार्यों न याति न तिष्ठति ।। १७५ ॥"
अथ मद:मदो मद्यादिसम्भूतिः स्वाप-हास्यास्मृतादिकृत् ॥ ३९ ॥ मद्य-मदनादिसम्भवः सम्मोहानन्दसम्पर्करूपो मदः । स च स्वाप-हास्यास्मरणासम्बद्धप्रलाप-गीत-नृत्तादीनि करोति । यथा"घूर्णमाननयनं स्खलत्कथं स्वेदविन्दुमदकारणस्मितम् । आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ॥ १७६ ॥ " ३९॥
____ अथ विषाद:विषादः कार्यभङ्गादेः सहायान्वेपणादिकृत् । * सहसा मा कथ्यतां प्रियागमस्तस्यै विरहकशिताये ।
अत्यन्तप्रहर्षेणापि या मृता सा मृतैव ।।
१३. प्रिया । २ व. ०सिया० । ३ म. मय चय, व. मया श्वेव । ४ प. नृत्यादी०, म. वृत्तानि ।
For Private And Personal Use Only