________________
Shri Mahavir Jain Aradhana Kendra
८०
www.kobatirth.org
66
अलङ्कार महोद
वपुषि वधाय तत्र तत्र शस्त्रमुपक्षिपतः
पतति शिरस्यकाण्डयमदण्ड इवैष भुजः || १७० || ”
अथावहित्थम् -
लज्जादेरवहित्थं स्यादन्यथाकथनादिकृत् ॥ ३७ ॥
लज्जा - भयादिभ्यो मुखरागाद्या कारगोपनमवहित्थम् । तच्चान्यथाकथन वलोकित-कथाभङ्ग - कृतकधैर्यादीनि करोति । यथा
Acharya Shri Kailassagarsuri Gyanmandir
" एवंवादिनि देवर्षो पार्श्वे पितुरधोमुखी । orataमलपत्राणि गणयामास पार्वती ॥ १७१ ॥
"
अथापस्मारः
ग्रहादिजन्माऽपस्मारः प्रकम्पप्रमुखावहः ।
ग्रह - भूत-पिशाच-शून्यारण्य - स्मशानसेवनादि सम्भूतिरावेशरूपोऽपस्मारः।
स च प्रकम्प - स्फुरित - श्वसित - भूमि लुठनादीन्यविहति । यथा
३७ ॥
आश्लिष्टभूमिं रसितारमुचैर्लोलद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥। १७२ ।। "
अथ शङ्का
चौर्यादि भूर्निजान्येभ्यः शङ्का पार्श्वेक्षणादिकृत् ॥ ३८ ॥
चौर्य- पारदार्यादिजन्या स्वकीयेभ्यः परेभ्यो वाऽनिष्टोत्प्रेक्षा शङ्का । सा च पार्श्वेक्षण - मुखौष्ठ - कण्ठशोषादीनि करोति । यथा
१ व तब शि० । २ प. •नि करोति ।
"6
दूराद् दवीयो धरणीधराभं यस्ताडकेयं तृणवद् व्यधूनोत् । हन्ता सुबाहोरपि ताडकारिः स राजपुत्रो हृदि बाधते माम् ।। १७३ ।। "
कुत्रचित् प्रियत्वेनापि जायते । यथा
For Private And Personal Use Only