SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । " लाक्षागृहानल-विषान-सभाप्रवेशै प्राणेषु चित्तनिचयेषु च नः प्रहृत्य । आकृष्टपाण्डववधूपरिधान-केशाः स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः॥" अथ प्रबोधःशब्दश्रुत्यादिसजन्यः प्रबोधो जृम्भणादिकृत् । शब्दश्रुति-स्पर्शादि-निद्रापगमहेतुसज्जन्यश्चेतनागमः प्रबोधः । स च जृम्भणाक्षिमईनाङ्गमङ्गादीनि करोति । यथा" प्रत्यग्रोन्मेष-जिला क्षणमनभिमुखी रत्नदीपप्रमाणा मात्मव्यापारगुर्वी जनितजललवा जृम्भणैः साङ्गभङ्गैः। नागा मोक्तुमिच्छोः शयनगुरुफणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेदृष्टिराकेकरा वः ॥ १६८ ॥" अथ मतिःशास्त्रचिन्तादिभूः शिष्योपदेशादिकरी मतिः ॥ ३६ ।। शास्त्रचिन्तनोहापोहादिभ्योऽर्थनिश्चयो मतिः । सा च शिष्योपदेशार्थविकल्पन-संशयच्छेदादीनि करोति । यथा" असंशयं क्षत्रपरिग्रहक्षमा यदायमस्यामभिलाषि मे मनः । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः॥१६९॥" ३६ ।। अथोग्रताचौर्यादिजन्मा वाग्-दण्ड-पारुष्यादिकृदुग्रता । चौर्य-द्रोहादिसम्भवं चण्डत्वमुग्रता । सा चापकारिणं प्रति वाग-दण्डपारुप्य-वधादीनि करोति । यथा"प्रणयिसखीसलीलपरिहासरसाधिगतै ललितशिरीषपुष्पहननैरपि ताम्यति यत् । १. कादिक । २ प. प्रत्ययो । ३ अ. संदेश । ४ अ. •हासग० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy