SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ध्वनि निर्णयो नाम तृतीयस्तरङ्गः । दिताः । शोभा-कान्ति-दीप्ति - माधुर्य- धैयौदार्य - प्रागल्भ्यनामानस्तु सप्त प्राप्तसम्भोगतायामेव भवन्तीत्यलङ्कारा एवं नानुभावतां भजन्तीति । कथमेतेऽनुभावा इत्याह येनेत्यादि । येन कारणेन तैः कटाक्षादिभिः सामाजिकाः सभ्याः स्थायिनः सञ्चारिणच भावांश्चित्तवृत्तिविशेषाननुभवन्तोऽनुभाव्यन्ते ज्ञाप्यन्ते किलेति पूर्वाचार्योक्तौ तेनानुभावा इति ॥ ३० ॥ 3 अथ व्यभिचारिणः हर्ष - व्रीडा - श्रमामर्षाः प्रबोधो मतिरुयता । अवहित्थमपस्मारः शङ्काऽथ जडता मदः ॥ ३१ ॥ विषादो ग्लानिरालस्यं दैन्यमावेग - चापले | उन्मादो व्याधिरौत्सुक्यं वितर्क - मरणे धृतिः ॥ ३२ ॥ चिन्ता त्रासस्तथाऽसूया निद्रा सुप्तमथ स्मृतिः । निर्वेद-मोहौ गर्वश्चेत्युदिता व्यभिचारिणः ॥ ३३ ॥ Acharya Shri Kailassagarsuri Gyanmandir इत्यमुना प्रकारेण विविधमाभिमुख्येन स्थायिधर्माणामुपजीवनेन स्वधर्माण समर्पणेन च चरन्तीति व्यभिचारिण उदिताः कथिताः ।। ३१-३३ ॥ 1919 अथ तान् प्रत्येकं विभावानुभावविभूषितानाह । तत्र हर्षस्य सर्वाभिलषणीयत्वात् प्रथमं निर्देश: 66 इष्टप्राप्त्यादिभिर्जन्यो हर्षोऽङ्गपुलकादिकृत् । इष्टप्राप्ति - राजप्रसादादिभिर्जननीयश्चित्तप्रसादात्मको हर्षः । स चाङ्गपुलक- नयन-वदनप्रसादादीनि करोति । यथा - tata पितुरपीन्द्रजितो निहन्तुर्वत्सस्य वत्स ! कति नाम दिनान्यमूनि । तस्याप्यपत्यमनुतिष्ठति वीरधर्मं दिष्ट्या गतं दशरथस्य कुलं प्रतिष्ठाम् ॥ १६४ ॥" For Private And Personal Use Only १ प. अ. ०ल्भ्यमा० । २ प. अ. भवसीत्य ० 1 ३ प. युग्मम् । ४ प. कुलकम् । ५ प. त्रिभिः कुलकम् ।
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy