SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ चर्षणागौरवेणाईता अनुभावैश्च गम्यमानास्ते भावा एव भवन्ति । तथाहिपृथ्वीविभागप्रधाने प्राणे सङ्क्रान्तश्चित्तवृत्तिगणः स्तम्भो विष्टब्धचेतनत्वं जलप्रधाने तु वापः । तेजसस्तु प्राणनैकयादुभयथा तीव्रातीवत्वेन प्राणानुग्रह इति । स्वेदो वैवयं च तद्धेतुत्वाच्च तथा व्यवहारः । आकाशानुगतचेतनत्वं प्रलयः । वायुस्वातन्त्र्ये तु तस्य मन्दमध्योत्कृष्टावेशात् त्रिधा । रोमाश्च-वेपथु-स्वरभेदमावेन स्थितिरिति भरतविदः । तथा ये च भावादयो ये च लीलादयस्तेऽप्यनुमावास्तेषु शैशवात्ययेऽल्प-बहु-भूयोविकारात्मका भावादयो भावहाव-हेलास्त्रयोऽङ्गजाः । तत्र भावो यथा" दृष्टेः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रं प्रेषयति प्रवर्जितसखीसम्भोगवार्तास्वपि । पुंसामङ्कमपेतशकमधुना नारोहति प्राग् यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥ १५१ ॥" हावो यथा" स्मितं किश्चिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतीनामारम्भः किसलैंयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ॥ १५२॥" __ हेला यथा" तरन्तीवाङ्गानि स्खलदमललावण्यजली प्रथिम्नः प्रागल्भ्यं स्तन-जघनमुन्मुद्रयति च । दृशो लीलारम्भाः स्फुटमपवदन्ते सरलता महो । सारङ्गाक्ष्यास्तरुणिमनि गाढा परिचयः ॥ १५३ ॥" . १ व. ०हता । २ व. यथा । ३ अ. अल्पबहुवि., व. • ये ब०। ४ ब. दृष्टे । ५ प्रेस., व. प्रेख०, ६ प. जीवित । . . •लयति । ८ प. निधौ । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy