SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । वन्ति । ग्रन्थगौरवमया मोदाह्रियन्ते । स्वस्वरसादन्यत्रानभिगामित्वात् सर्वकालमात्मनः सब्रह्मचारित्वाच्च रत्यादीनां स्थायित्वम्, हर्षादीनां तु तद्विपरीतत्वाद् व्यभिचारित्वम् ॥ २५ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ स्थायिनां रसत्वाभिव्यक्ति हेतू नालम्बनोद्दीपनविभावानुभावान् व्यभिचारिणश्च विभणिपुरालम्बनवि भावानाह आलम्बनविभावाः स्युः पुंस्पुरन्ध्रिपुरःसराः । यानालम्ब्य क्षणाद् बद्धस्फातिर्भावो विभाव्यते ॥ २६ ॥ परस्परं पुंस्पुरन्ध्रयो नर-नार्यः पुरःसरशब्दाद् विकृतवेषेष्टनाशादयः स्था 9 यिनां प्रियागमादयश्च व्यभिचारिणामालम्बनविभावाः । कुत इत्याह- यानालम्ब्येति । यानवलम्ब्य भावः स्थायि - व्यभिचारिरूपः क्षणाद् बद्धप्रकर्षो विभाव्यते संवेद्यते ॥ २६ ॥ अथोद्दीपनविभावा: उद्दीपनविभावास्तु कौमुदी - काननादयः । समृद्धिं संश्रयन् भावः काममुद्दीप्यते हि तैः ॥ २७ ॥ कौमुदी - केलिकानन - माल्यर्चु - हर्म्यतल दीर्घिका जलक्रीडाऽऽदयः पुनरुद्दीपनविभावाः । कृत इत्याह- समृद्धिमित्यादि । हि यस्मात् कारणात् भावः स्थायी सवारी वा समृद्धिमुत्कर्षमाश्रयन् काममत्यर्थं तैरुद्दीप्यते ॥ २७ ॥ १ व. ०० । अथानुभावit ये कटाक्ष - भुजाक्षेप - भ्रू - मुखभ्रमणादयः । स्तम्भाद्याः सात्त्विका ये च भावलीलादयश्च ये ॥ २८ ॥ ते सर्वेऽप्यनुभावाः स्युर्येन सामाजिकाः किल । तैर्भावाननुभाव्यन्ते स्थायि - सञ्चारिसंज्ञकान् ॥ २९ ॥ For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy