________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलद्वारमहोदधौ अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥ १३७॥" अत्र रुचिविशेषोऽभिमानः। वैषयिकी तु शब्दादिविषयोद्भवा । तत्र शब्दाद् यथा-- " विलासमसृणोल्लसन्मुसललोलदो कन्दली
परस्परपरिस्खलद्वलयनिःस्वनोइन्तुराः । हरन्ति कलहुंकृतिप्रसभकम्पितोरुस्तनत्रुटद्गमकसलाः कलमकण्डनीगीतयः ॥ १३८ । "
स्पर्शाद् यथा" मनमानेषु रोमानं कुर्वन् मनसि निर्वतिम् । नेत्रे चामीलयमेष प्रिया स्पर्शः प्रवर्धते ॥ १३९ ॥"
रूपाद् यथा"ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि । तथा हि सर्वेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥ १४ ॥"
रसाद यथा"कस्य नो कुरुते मुग्धे ! पिपासाकुलितं मनः ।। अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ।। १४१ ॥"
गन्धाद् यथा"अरंधणकम्मसु निउणे ! मा जूरसु रत्तपाडलमुअंधं ।
मुंहमारु पिअन्तो धूमाइ सिही न पजला ॥ १४२॥" एवं हासादीनामपि स्मित-विहसितापहसितादयः कतिचिद् भेदाः सम्भ
* रन्धनकर्मसु निपुणे ! मा खिद्यस्व रक्तपाटकसुगन्धम् । मुखमारुतं पिबन् धूमायते शिखी न प्रज्वलति ॥
१
. ०रन्तु० ।
२ व
यरूप० । ३ अ. ०यधं ।
४ अ. व. सुह० ।
For Private And Personal Use Only