SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 46 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्वनि निर्णयो नाम तृतीयस्तरङ्गः । ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकामम् | शपैरधवलीढैः श्रमविवृतमुख शिभिः कीर्णवम पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकमुर्व्या प्रयाति ॥ १२७ ॥ २१ ॥ अथ बीभत्स: अरम्यालोकनाद्युत्था सङ्कोचादिनिबन्धनम् । बीभत्सः स्याज्जुगुप्साऽपस्मारादिव्यभिचारिणी ॥ २२ ॥ अरम्याणामुद्धतादीनामालोकन - श्रवणादिम्य उत्तिष्ठन्ती गात्रसङ्कोचहुलास-नासा - मुखविकूणनादीनां निबन्धनमपस्मारौम्य - मोहम्यभिचारिणी जुगुप्सा बीभत्सः । यथा 66 उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृधूच्छोफभूयांसि मांसा - न्यंस- स्फिक्-पृष्ठ-पिण्याद्यवयवसुलभान्येन्त्रपूतीनि जग्ध्वा । आत्तस्नाय्वन्त्रनेत्रात् प्रकटितदशनः प्रेतरङ्गः करङ्का दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ १२८॥ १२२ ॥ अथाद्भुतः दिव्यरूपावलोकादिस्मेरो हर्षायलङ्कृतः दूरं नेत्रविकासादिकारणं विस्मयोऽद्भुतः ॥ २३ ॥ दिव्यरूपदर्शनेप्सितप्राप्ति - रम्यकाननाद्यवलोकनादिभिः स्मेर: सविकांसो नेत्रविकास- रोमाञ्च- साधुवादादीनां कारणं हर्षावेग-जडताऽऽदिभिरलङ्कृत चित्तविस्तारात्मा विस्मयोऽद्भुतः । यथा " कृष्णेनाम्ब ! गतेन रन्तुमधुना मृद् भक्षिता स्वेच्छया सत्यं कृष्णक एवमाह मुशली मिथ्याऽम्ब ! पश्याननम् । व्यादेहीति विकासिते शिशुमुखे माता समग्रं जगत् दृष्ट्वा यस्य जगाम विस्मयपदं पायात् स वः केशवः ।। १२९ ।। १२३ ।। १ अ. ०क्व०, प. ०क्वरण० । २ व. ०न्युप्रपू० अ ०न्यंतपू० । ३ प. ०कारो ने० । ४ अ. ०तः चि० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy