SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । इष्टनाशानिष्टसंयोगादिभ्यः प्रादुर्भूतो दैवोपालम्भ-निःश्वासाश्रुक्रन्दादीनामनुभावानां भजनशीलः, निर्वेद-ग्लानि-दैन्यादिदुःखैकमयव्यभिचारी शोका करुणत्वं श्रयेत् । यथा " यस्याः कुसुमशय्याऽपि कोमलाङ्ग्या रुजाकरी । साधिशेते कथं देवी हुताशनवती चिताम् ! ॥ १२१॥" ॥१८॥ ___ अथ रौद्रःस्म(स्मे)रन् दारापहाराद्यैर्नेत्ररांगादिकारणम् । औठ्यादिव्यभिचारी च क्रोधो रौद्ररसो भवेत् ॥ १९ ॥ दारापहार-देशादिनिन्दा-स्वभृत्याधिक्षेप-स्वोपहासादिभिर्विकसन् नेत्रराग-दृकुटीकरणौष्ठपीडनादीनां जनकः । औघ्यावेगामर्षादिव्यभिचारी च क्रोधो रौद्ररसो' भवति । यथा" अद्राक्षुर्ये नरेन्द्रा द्रुपदतनुभुवः केशपाशावकृष्टिं चक्रुर्वाऽकारयन् वा मनसि किमपरं येऽन्वमन्यन्त मोहात् । सर्वेषामेव तेषां समरमखभुवि क्रोधवहो जुहोति द्वित्रै कारमन्त्रैरभिजनसमिधो मध्यमः पाण्डवेयः ॥१२२॥" ॥१९॥ अथ वीर:न्यायादिबोध्यः स्थैर्यादिहेतुधृत्याद्युपस्कृतः। उत्साहो दान-युध्-धर्मभेदो वीररसः स्मृतः ॥ २० ॥ प्रतिनायकस्थितन्याय-विक्रम-बलासंमोहादिजागरणीयः स्थैर्य-धैर्य-शौर्यादीनां हेतुति-स्मृत्यौग्य-गर्वादिभिः संस्कृतश्च कोऽप्युत्साहो वीरः स्मृतः । स च दान-युद्ध-धमैत्रिभेदः । तत्रै दानभेदो यथा १ भ. प. रोगा०, व. ०कारादि० । २ प. ०रणैः। ३ अ. रसी, व. ०दो र० । ४ प. रोग। ५ व. दिभिर्व्यः । ६ प. अ. ब. रसीभ० । . प. वाद्यो य० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy