________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलङ्कारमहोदधौ " हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः १ ॥ ११८॥" इत्यादि रतिप्रलापेषु ॥ १६ ॥
अथ हास्यमाहव्यक्तो विकृतवेषायै सास्पन्दादिजन्मकृत् । निद्रादिव्यभिचारी च हासो हास्यत्वमाश्रयेत् ॥१७॥ देश-काल-चयो-वर्णवैपरीत्या विकृतवेषेणाद्यशब्दानर्तनान्यगत्याद्यनुकरणादिभिर्विभावैर्व्यक्तो नासौष्ठ-कपोलस्पन्दन-दृष्टिव्याकोशाकुश्चनादीनामनुभावानां जन्मकृत् । निद्राऽवहित्थ-त्रपा-ऽऽलस्यादिव्यभिचारी च हासः स्थायिभावो हास्यत्वमाश्रयेत् । स चात्मस्थः परस्थश्च । तत्राद्यो यथा
" पाणौ कङ्कणमुत्फणः फणिपतिर्ने ज्वलत्पावकं ___ कण्ठः कूटितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् । गौरीलोचनलोभनाय सुभगो वेषो वरस्यैष मे गण्डोल्लासविभावितः पशुपतेहोस्योद्गमः पातु वः ॥ ११९ ॥"
परस्थो यथा" कनककलशस्वच्छे राधापयोधरमण्डले
नवजलधरश्यामामात्मयुति प्रतिविम्क्तिाम् । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन् जयति जनितव्रीडा-हासः प्रियाहसितो हरिः ॥१२०॥" ॥१७॥
अथ करुण:इष्टनाशादिभूर्दैवोपालम्भाद्यनुभावभाक् । दुःखैकमयसञ्चारी शोकः करुणतां भेजेत् ॥ १८ ॥
१. रमिदं । २ भ. ०री हा० । ३ व. गंगोला । ४ व. प्युति । ५. 4 बजेत् । ।
For Private And Personal Use Only