________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । शापानन्तरो यथा नियुक्त-संयुक्तयोः शकुन्तला-दुप्यन्तयोः ।
यथा वा" शापान्तो मे भुजगशयनादुत्थिते शाङ्गपाणौ
मासानेतान् गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाषं
निर्वेक्ष्याः परिणतशरचन्द्रिकासु क्षेपासु ॥ ११४ ॥" अत्र भविष्यतोऽपि सम्भोगस्य शापानन्तरत्वमेव ।
वियोगानन्तरो यथा*" रमिऊण पयं पि गओ जाहे अवगृहए पडिनियंत्तो । अहयं पउत्थवइथे ब्व तक्खणं सो पवासि ब्व ॥ ११५ ॥"
ईर्ष्यानन्तरो यथा"ग्रन्थिमुद्रथयितुं हृदयेशे वाससः स्पृशति मानधनाया। भ्रूयुगेन सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ।। ११६ ॥"
प्रवासानन्तरो यथा" चिरविरहिणोरुत्कण्ठायां श्लथीकृतगात्रयो
नवमिव जगजातं भूयश्चिरादभिनन्दतोः । कथमपि दिने दीघे याते निशामधिरूढयो।
प्रसरति कथा बही यूनोर्यथा न तथा रतिः ॥ ११७॥" करुणविप्रलम्भस्तु करुण एव । यथा
*रत्वा पदमपि गतो यदाऽवगूइते प्रतिनिवृत्तः । अहं प्रोषितपतिकेव तत्क्षणं स प्रवासीव ॥
१५. दुष्क०, म. दुष्टं । २ प. •क्ष्यामः । ३ भ. प. क्षिपा० । ४ भ. अत्तो । ५ व. ०इय । ६. नियोगः ।
For Private And Personal Use Only