SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः । यथा वा " सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती मा मा मुश्च शठेति कोपवचनैरानर्चित भ्रूलता । सीत्काराश्चितलोचना सरभसं चुम्बिता मानिनी प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः || १०७ ।। अथ विप्रलम्भमाह - "" विप्रलम्भस्तु शङ्कादिव्यभिचारिमान् । तापादिकृत् स्पृहा - शाप - वियोगेर्ष्या - प्रवासजः ॥ १६ ॥ ६१ ॥१५॥ सम्भोगसुखलोभेन विशेषेण प्रलभ्यते आत्माऽत्रेति विप्रलम्भः । स च पुनः शङ्कादयः शङ्कौत्सुक्य-मद- ग्लानिप्रभृतयस्ते च ते व्यभिचारिणश्च ते विद्यन्ते यस्य स तद्वान् । तापादीन् ताप - जागर- कार्श्य - प्रलापादनिनुभावान् करोतीति । स च स्पृहा - शाप - वियोगे - प्रवासेभ्यो जायते । तत्र स्पृहा प्रथमाभिलाषस्वत्सकाशाद् यथा " स्मरनवनदीपूरेणोढा मुहुर्गुरुसेतुभि पविता दुःखं तिष्ठन्त्यपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ १०८ ॥ " इदं च शापतिरस्कृतायामुर्वश्यां पुरूरवसो वचनम् । १ . टेऽधरपल्लवे । २ प ० से जा० । ३ प ०जते० । For Private And Personal Use Only शापाद् यथा 64 तिष्ठेत् कोपवशात् प्रभावपिहिता दीर्घ न सा कुप्यति स्वर्गात्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तु विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्त्तिनीं सा चात्यन्तमगोचरं नयनयोतिति कोऽयं विधिः ! ।। १०९ ।। "
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy