SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ भेदौ किन्तु द्वयात्मकं स्वरूपमेव । ततः सम्भोगे विप्रलम्भे च ग्रामैकदेशे ग्रामशन्दवदुपचारेण शृङ्गारशब्दस्य प्रवृत्तिस्तवतो द्वयात्मकत्वमेवास्य । तथाहिसम्भोगे यदि न विरहाशङ्का तदा स्वाधीनेऽनुकूले चानादर एव स्याद् वामत्वात् कामस्य । विप्रलम्भेऽप्यनवच्छिन्न एव सम्भोगमनोरथो निराशत्वे करुण एव स्यादत एव तद्दशाद्वयमीलने सातिशयश्चमत्कारः । यथा " एकस्मिन् शेयने पराङ्मुखतया वीतोत्तरं ताम्यतो रन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोगौरवम् । दम्पत्योः शनकैरपाङ्गमिलनामिश्रीभवच्चक्षुषो मैग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहम् ॥ १०५॥" अत्र व्यभिचारिपङ्क्तौ स्थायिन्या जुगुप्सायाः सनिवेशः कापि स्थायिनामपि व्यभिचारित्वख्यापनार्थो यथाऽस्या एव शान्ते, रोषस्य भयस्य च शृङ्गारे, तयोयोरप्यनुभावास्त्वनन्तरमेव पृथक् पृथग् दशाद्वयलक्षणे वक्ष्यन्ते ॥ १४ ॥ तत्र सम्भोगमाहसौख्यैकमयधृत्यादिसञ्चारी पुलकादिकृत् ॥ १५ ॥ सम्भोगः यत्र कामिन्यामिष्टानि दर्शनादीनि सम्यग् भुज्यन्ते स सम्भोगः । स च कीदृशः १ सौख्यैकमया आनन्दैकमया धृत्यादयो धृति-व्रीडा-जाड्यादयः सञ्चारिणो व्यभिचारिणो यत्र स तथा। स च पुलकादीन् पुलक-स्वेद-कम्पादीननुभावान् करोतीति । अनुभाः पुरो वक्ष्यन्ते । स च परस्परावलोकनालिङ्गानचुम्बन-पानायेनन्तभेदः । यथा: "शून्यं वासगृहं विलोक्य शयनादुत्थाय किश्चिच्छनै निद्रान्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । ... विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली ____ लजानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ १०६॥" १ प. • नय० । २ व. न्याम० । ३ ५. ०नन्दम० । ४ अ. ०ः पुरो वक्ष्यते ! ५ व. For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy