________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वनिनिर्णयो नाम तृतीयस्तरङ्गः ।
५९
इत्यादौ च औत्सुक्य-वीडी-हर्ष - कोपासूया - प्रसादानां व्यभिचारिणामेव । तत्राप्येतेषामसाधारणत्वादन्यतमद्वयांपेक्षत्वे सति न व्यभिचार इति ॥ १२ ॥
उक्तं सामान्येन रसस्वरूपमिदानीं तद्भेदानाह—
शृङ्गार - हास्य- करुणा रौद्र - वीर - भयानकाः ।
बीभत्साद्भुत - शान्ताश्च नव नाट्ये रसा अभी ॥ १३ ॥
तत्र सकलप्राणिगणप्रीणकत्वात् पूर्व शृङ्गारः । तदनुगामी च हास्यः । तद्विपरीतः करुणः । तन्निमित्तमर्थप्रधानो रौद्रः । कामार्थयोर्धर्ममूलत्वाद् धर्मप्रधानो वीरस्तस्य भीताभयप्रदायित्वात् । दुर्विनीतघातोत्थरुधिरास्थिपिच्छिलितरणाङ्गणत्वाच्च तदनन्तरं भयानक - बीभत्सौ । वीरस्य पर्यन्तफलभूतत्वादद्भुतः । ततः सर्वरसप्रतिपक्षभूतो निर्वृतिधर्मात्मकः शिवफलः शान्तः । इत्येते नवैव नादयप्रसिद्धा रसाः । ये तु कैश्चिदार्द्रतादिस्थायिनः स्नेहादयो रसाः प्रोक्तास्ते सर्वेऽपि रत्यादिष्वेवान्तर्भवन्तीति न पृथक् प्रतिपादिताः ॥ १३ ॥
अथ शृङ्गारं लक्षयति
व्यक्ता स्त्री-पुंस - माल्यादिविभावैराश्रिता रतिः । व्यभिचारिभिरालस्य- जुगुप्सौम्यविवर्जितैः ॥ १४ ॥ सम्भोगविप्रलम्भात्मा शृङ्गाराख्यो रसो भवेत् ।
श्री- पुंसाम्यां परस्परमालम्बन - विभावाभ्यां माल्यादिभिर्माल्यर्तु-शैल - हर्म्यतल -- मलयानिल कौमुदी - कानन दीर्घिका जलक्रीडाऽऽदिभिरुदीपनविभावैर्व्यक्ताव्यञ्जिता । तथा क्वचित् कैश्विदालस्य- जुगुप्सौम्यरहितैर्व्यभिचारिभिराश्रित परिवृता कामिनोः परस्परास्थावन्धात्मिका रतिः स्थायी भावश्चर्वणागोचरं गतः शृङ्गारनामा रसः । स च कीदृशः १ सम्भोग - विप्रलम्भात्मा सम्भोग - विप्रलम्भावात्मा यस्य, न त्वात्मानौ तेन नैतौ तस्य
१ अ. ० को ० । २ अ. व. व्याक्षेपकत्वे स० । ३ अ. णरौ० । ४ प. व निवृत्तिध• । ५ अ. ०व प्र० । ६.अ. ०भ्यां माल्यर्तु० । ७ व ०दीर्घि० । ८ व श्रिता का० । ९प संयो० । १० प ०त्माय० ।
For Private And Personal Use Only