SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ अलङ्कारमहोदधौ परिमिताद् योगिज्ञानात् तत्त्वविषयोपरागविरहान् वेद्यसंस्पर्शरहितत्वेन स्वात्ममात्रपर्यवसितात् जगद्वथापकत्वेन परिमितेतराद् योगिसंवेदनाच विलक्षणस्य लोकोत्तरसंवेदनस्य गोचर इति प्रत्य(त्ये)योऽप्यभिधीयताम् । तद्ग्राहक चे न निर्विकल्पकं विभावादिपरामर्शनप्रधानत्वात् । नापि विकल्पश्चर्यमाणस्य सदोल्लेखरहितत्वेनालौकिकानन्दमयस्य तस्य स्वसंवेदनसिद्धत्वात् । उमयामावरूपस्य चोभयात्मकत्वमपि पूर्ववल्लोकोत्तरतामवगमयति, न तु विरोधम् ।" इति श्रीमानभिनवगुप्तः। विभावादीनां च समस्तानामेव व्यञ्जकत्वम् , न व्यस्तानां व्यभिचारात् । व्याघ्रादयो हि विभावा भयानकस्येव वीराभूत-रौद्राणाम् । अश्रुपातादयोऽनुभावाः करुणस्येव शृङ्गार-वीर-भयानकानाम् । चिन्तादयो व्यभिचारिणः शृङ्गारस्येव वीर-करुण-भयानकानाम् , यत्रापि व्यस्तानामुपादानम् । यथा" माकन्दालीमरन्दप्रसरभरनमन्मञ्जरीमन्जुलश्री.. युिर्वात्येष योषित्प्रणयकलिमिदादक्षिणो दाक्षिणात्यः । नादः श्रोत्रैकपेयः परिलुठति कुहूकण्ठकण्ठोदरेषु ज्योत्स्ना स्वच्छन्दमिन्दोः स्फुरति च मयि तदू देवि! दासे प्रसीद ॥१०२॥" इत्यादौ विभावानामेव । यथा च"परिमृदितमृणालीम्लानमङ्ग प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु | कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीमभिनवकरिदन्तच्छेदपाण्डुः कपोलः॥१०३" इत्यादावनुभावानामेव । यथा वा" एव्यत्युत्सुकमागते विवलितं सम्भाषिणि स्फारित - संश्लिष्यत्यरुणं गृहीतवसने किश्वाचितभ्रलतम् । मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्ण क्षणा चक्षुर्जातमहो ! प्रपश्चचतुरं जातागसि प्रेयसि ॥ १०४ ॥" १. व. नात्ववि० । २ . च नि० । ३ भ. : प्रार्थना निः । ४ व. च । ५ व. विचलि। For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy