________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२)
પરિહાર્ય મીમાંસા
પ્રખ્યાત તપાગચ્છના શૃંગાર અને સંસ્કૃત ભાષાના વ્યાકરણ અને ન્યાયના ઉત્તમ અભ્યાસી
સંવિમ જૈન મુનિ શ્રીમાન નેમિવિજયજી તથા શ્રીમાન આનંદસાગરજી મહારાજે રચેલી.
परिहार्य मीमांसा.
-
-
-
॥ श्रीवीतरागाय नमः॥
येनाक्षालि सुभव्यमानसतमोलेपः सुधासोदरैः सूक्ताम्भोभिरदर्शि दर्शनमनुक्रोशाकरेणारगना ॥ स्याद्वादाभिधमन्यपक्षदलनप्रौढं सुसिद्धिप्रद ध्यायावो जगतां हितं जिनवरं धर्मप्रदानोद्यतम् ।। हिमांशुकिरणप्रभामदविलासहासोद्यते यदीययशसि श्रुते न मधुरा सुधा श्लाध्यते । सुभष्यजनताज्ञतातमसि सूरचर्यापरः
स वृद्धिविजयो जयत्वतुलमुक्तियुक्तो मुनिः । २। श्रीमजन्मादिकल्याणकपवित्रीकृतवाराणसीक्षेत्रमिथ्यात्वतिमिरदूरीकरणसहस्रकिरणायमान. भन्यजनविषमगदागदंकाराससिद्धभव्यजनचेतश्चमत्कारकारिसंसारपारावारतरणिभूमिपालमालालंकरणचारुचरणारांवन्दचिजगदवतंसपरमानन्दनिधानसमकामवितरणाधरीकृतकल्पगुमश्रीमत्स्तम्भनपार्श्वनाथसनाथीकृतात् स्तम्भतीर्थात् मुनिनेमिविजयानन्दसागराभ्यां मि० जेकोबीमेक्स. म्युलरान् प्रति दत्तो धर्मलाभः समुल्लसतुतराम् -विशेषस्तु-समागतं वः पत्रं मुम्बईपुरवास्तव्यश्राद्धखीमगीहीरजीनामकं प्रति तच मुम्बईसमाचारद्वारा वाचयिस्वा ज्ञातवृत्तान्तावावां तत्प्रत्युत्तरं निविवेदयिषू पत्रमिदं लेखितुमुपक्रान्तवन्तौ स्वस्तथाहि.
यत्वाचाराङ्गीयार्थप्रकाशकाङ्ग्लदेशीयशन्दनिबद्धग्रन्थप्रपंचे भस्मादावस्थिप्रक्षेपपूर्वकंमत्स्यमांसभोजनकार्यमितिभवस्कृतद्वितीय श्रुतस्कन्धप्रथमाध्ययनदशमोद्देशकीयसूत्रतात्पर्यार्थ वर्णनवाचनचकितकायानीप्रेषितपत्रोत्तरे मत्स्यशब्दप्रयोगस्य सर्वकोशसंदर्शनबलेन मीनातिरिक्तार्थतात्पर्यविषयकवेन वक्तुमशक्यत्वादाचारागसूत्रस्य जिनकल्पिकमुनिमात्राचारप्रकाशकत्वेनाद्यतनजैनमनिब्यबहाराविषयत्वेऽपि मांसादिभक्षणस्य प्राचीनजिनकल्पिकमुनिव्यवहारविषय बाधकामावान् मांसमीनभक्षणमाघाराङ्गैतत्सूत्रसंमतमिति भवनिरभ्यधायि तत्सर्वमसमम्जसम्
तिक्ता रिष्टा कटुर्मस्स्या चक्राङ्गी शकुलादनी इति प्रसिद्धकलिकालसर्वज्ञश्रीमद्धेमचन्द्रकोशदर्शितायाः प्रज्ञापनादिसिद्धान्तकोशप्रतिपा. दिरावणवृकीशिखण्डिन्यादिजीवसमानाभिधाननिरूपितवनस्पतिनिष्ठवाच्यतावत्सर्वकोशसंदर्शन प्रतिज्ञाऽनिवारणीयमत्स्यशब्दवाध्यताया निर्वाधतयोग्लम्धेः
For Private and Personal Use Only