________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम् -७ ब्रह्मवर्गः ।
कज्जले स्यागिरियके कन्दुकश्चोदना गुडः । निश्रुकनं दन्तशाणं पिष्टातो धूलिगुत्सकः ॥ ३४३
___ इति मनुष्यवर्ग: ।। ६ ॥ वंश्यः कल्यश्च बीज्यश्च ब्रह्मचारी बटुः समौ । स्याट्रकरणं तूपनयनं गृहमेधिनि ॥ ३४४ ज्येष्टाश्रमी गृही वानप्रस्थो वैखानसोऽगृहः । वक्रजस्वनमो विप्रो वर्णज्येष्ठः कठो द्विजः ॥३४५ मैत्रः पुनरुक्त जन्मा स्यादथ ब्राह्मणायनः । शुद्धसंतानजो विप्रः श्रौत्रं श्रोत्रियतां विदुः ॥ ३४६ स्यादक्षरमुखः कालाक्षरिकः शिक्षिताक्षरः । काव्यस्य कर्ता भेविनो गुणनी शीलनं स्मृतम् ॥३४७ क्रियाकारो नवच्छात्रः कार्पटिकः स मर्मवित् । पर्षत्परिषदौ गोष्टी राजसूयो नृपाध्वरः ॥ ३४८ क्रतृत्तमश्चाथ चान्द्रायणमिन्दुव्रतं स्मृतम् । हवनी होमकुण्डं स्यान्महावीरो मखानले ॥ ३४९ होमधूमस्तु निगणो होमभस्म तु वैष्टुभम् । आर्यकं पिण्डदानादिपितृकार्यमथो हविः॥ ३५० होत्रं हविष्यं सांनाय्यं पाठको धर्मभाणकः । सभ्यास्तु प्राश्निका देवद्रोणी यात्रा दिवौकसाम३५१ इष्टापूर्त तदेकोक्त्या यागखातादि कर्म यत् । यज्ञद्रव्यं तु पात्रीयं प्राधुणस्त्वतिथियोः ॥ ३५२ कौशली कुशलप्रश्न: समीची वन्दना मता । उपोषणं तूपवासो रोगाबैलचनं च तत् ॥ ३५३ ब्यन्तरे व्यन्तरे भुक्तमाहुः षष्टान्नकालकम् । राद्धं सिद्धमथो चारुवृता मासोपवासिनी ॥ ३५४ स्यादायत्री तु सावित्री ब्रह्मारण्यं तु पाठभूः । पवित्रं यज्ञोपवीतं ब्रह्मसूत्रं द्विजायनी ॥ ३५५ कच्छा कच्छटिका कक्षापटी कौपीनमित्यपि । वैडालबतिकः सर्वाभिसंधी छद्मतापसः ॥ ३५६ कमण्डलुश्चैत्यमुखो जोटिङ्गस्तु महाव्रती । उरस्कुटः पञ्चवटो बालयज्ञोपवीतकम् ॥ ३५७ भाले तिस्रो भस्मरेखास्त्रिपुण्डकमथर्षयः । शापास्त्राः सत्यवचसो व्यासाद्यास्तु महर्षयः ॥ ३५८ परमर्षयो भेलाचा देवर्षयः कचादयः । ब्रह्मर्षयो वसिष्ठाद्याः सुश्रुताद्याः श्रुतर्षयः ॥ ३५९ ऋतुपर्णादयो राजर्पयः काण्डर्पयस्त्वमी । जैमिन्याचा नारदस्तु कपिवक्रो विधातृभूः ॥ २६० देवब्रह्मा देवलश्च दुर्वासास्तु कुशारणिः । प्राचेतसस्तु वाल्मीकिः कविज्येष्टः कुशी वशः ।। ३६१ अपि वल्मीकवाल्मीको कृतकोटिस्तु काश्यपः । कृष्णद्वैपायनो वेदव्यासः स्यात्सत्यभारतः ॥ ३६२ पागशरिः सात्यवतो माठरो बादरायणः । वसिष्ठोऽरुन्धतीनाथो विश्वामित्रच गाधिजः ॥ ३६३ गौतमस्तु शतानन्दः कणादः काश्यपः समौ । धन्वन्तरिदिवोदासः काशिराजः सुधोद्भवः ॥३६४ पालकाप्यो गणवतीकरेणुरुचिगसुतः । विष्णुगुप्रस्तु कौटिल्यश्चाणक्यो द्रामिलोऽङ्गुलः ॥ ३६५ वात्स्यायनी मल्लनाग: पक्षिलस्वामिनावपि । उपवर्षो हलभूतिः कृतकोटिरयाचितः ॥ ३६६ पाणिनिस्वाहिको दाक्षीपुत्रः शालकिपाणिनौ । सालातुरीयोऽथ व्याडिविन्ध्यस्थो नन्दिनीसुतः ॥३६७ मेघावी चाथ मेधाजित्कात्यः कात्यायनश्च सः । पुनर्वसुर्वररुचिर्गोनर्दीयः पतञ्जलिः ॥ ३६८ चूर्णिकृद्भाष्यकारश्च हरिर्भर्तृहरिः स्मृतः । रघुकारः कालिदासो मेधारुद्रश्च कोटिकृत् ॥ ३६९ भारविः शत्रुलुम्पः स्याद्भवभूतिस्तु विस्मृतः । भूगर्भोऽप्यथ यः प्रातः स्मर्यते शुभकाम्यया ॥ ३७० स सुगृहीतनामा स्यात्पैण्डिन्यं भैक्षजीविका । पाखण्डकौलिको खञ्जनरतं यतिमैथुनम् ॥ २७१. अभावादङ्गनात्यागस्तुरगब्रह्मचर्यकम् । मुखघण्टा हुलहुली नागरीटस्तु टोत्करः ॥ ३७२
१ 'गिरिपकः' ख-ग-घ. २ 'भविनी' घ. ३ 'धमधृपः' क. ४ 'निगनो' क. ५ 'पात्रीवं' क. ६ 'सुत'शब्दो गणवत्यादिभिरन्यः . ७ 'भ्राग्मणो' क-ख-ग, 'द्रोमिणो घ. ८ 'अंशुनः' क-ख-ग, 'अंशुलः' घ. इह त्वभिधानचिन्तामण्यनुसारेण पाठः स्थापितः. ९ 'नागरीक' क ख-ग, 'नागवीटः घ. १० यत्करः' ख-ग, टांकरः'घ.
For Private and Personal Use Only