SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ काण्डम्-९ वैश्यवर्गः । त्रिष्वाशितंगवीनं तद्गावो यत्राशिताः पुरा । उक्षा भद्रो वलीवर्द ऋषभो वृषभो वृषः॥ ९१६ अनडान्सौरभेयो गौरक्ष्णां संहतिरीक्षकम् । गव्या गोत्रा गवां वत्सधेन्वोत्सिकधैनुके ॥ ९१७ वृषो महान्महोक्षः स्यादृद्धोक्षस्तु जरद्गवः । उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः ॥ ९१८ शकृत्करिस्तु वत्सः म्यादम्यवत्सतगै समौ । आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्रेचरः॥९१९ स्कन्धदेशे त्वस्य वहः सास्ना तु गलकम्बलः । स्यान्नस्तितस्तु नस्योतः प्रष्टवाड्युगपार्श्वगः ॥ ९२० युगादीनां तु बोढागे युग्यप्रासङ्गशाकटाः । खनति तेन तद्वोढास्येदं हालिकसैरिकौ ॥ १२१ पूर्वहे थुर्यधौरेयधुर्गणाः सधुरंधराः । उभावकधुरीणैकधुरावेकधुगवहे ॥ ९२२ स तु सर्वधुरीणः स्याद्यो वै मर्वधुगवहः । माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी ॥ ९२३ अर्जुन्यन्न्या गेहिणी स्यादुत्तमा गोषु नैचिकी । वर्णादिभेदात्संज्ञाः स्युः शवलीधवलादयः ॥ ९२४ द्विहायनी द्विवर्षा गौरकाव्दा बेकहायनी । चतुरब्दा चतुर्हायण्येवं व्यब्दा त्रिहायणी ॥ ९२५ वशा वन्ध्यावतोका तु म्रवद्गर्भाथ संधिनी । आक्रान्ता वृषभेणाथ वेहद्गर्भोपघातिनी ॥ ९२६ काल्योपसर्या प्रजने प्रष्टीही बालगर्भिणी । स्यादचण्टी तु सुकग बहुसूतिः परेष्टुका ॥ ९२७ चिरप्रसूता वष्कयणी धेनुः स्यान्नवमतिका । सुव्रता सुखसंदोह्या पीनोनी पीवरस्तनी ॥ ९२८ द्रोणक्षीरा द्रोणघा धेनुप्या वन्धके स्थिता । समांसमीना सा यैव प्रतिवर्ष प्रसूयते ॥ ९२९ ऊवस्तु क्लीवमापीनं समौ शिवककीलकौ । न पुंसि दाम संदानं पशुरज्जुस्तु दामनी ॥ ९३० वैशाग्यमन्थमन्थानमन्धानो मन्थदण्डके । कुटगे दण्डविष्कम्भो मन्धनी गर्गरी समे ॥ ९३१ उष्टे क्रमेलकमयमहाङ्गाः करभः शिशुः । करभाः स्युः शृङ्खलका दारवैः पादवन्धनैः॥ ९३२ अजा छागी शुभच्छागवस्तच्छगलका अजे । मेढोरधोरणोर्णायुमेषवृष्णय एड के ॥ ९३३ उष्टोग्भ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम । चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः ॥ ९३४ वैदेहकः मार्थवाहो नैगमो वाणिजो वणिक् । पण्याजीवो ह्यापणिक: क्रयविक्रयिका सः ॥ ९३५ विक्रेता स्याद्विक्रयिकः कायकक्रायिको समौ । वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः९३६ नीवी परिपणो मूलधनं लाभोऽधिकं फलम् । परिदानं परीवर्तो नैमेयनिमयावपि ॥ ९३७ पुमानुपनिधियासः प्रतिदानं तदर्पणम् । ऋये प्रसारितं अय्यं क्रेयं क्रेतव्यमात्रके ॥ ९३८ विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु । क्लीवे सत्यापनं सत्यकार: सत्याकृतिः स्त्रियाम् ॥ ९३९ विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु । विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः९४० संख्यार्थे द्विवहुवे स्तस्तासु चानवतेः स्त्रियः । पतेः शतसहस्रादि क्रमाद्दशगुणोत्तरम् ॥ ९४१ यौतवं दुवयं पाय्यमिति मानार्थकं त्रयम् । मानं तुलाङ्गुलिप्रस्थैर्गुञ्जाः पभागमाषकः ॥ ९४२ ते पोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् । सुवर्णविस्तौ हेनोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ९४३ तुला स्त्रियां पलशतं भार: स्याद्विंशतिस्तुलाः । आचितो दश भाराः स्युः शाकटो भार आचितः ॥ कार्षापणः कार्षिकः स्यात्कार्पिके ताम्रिके पणः । अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः।।९४५ कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् । पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके ।।९४६ द्रव्यं वित्तं वापतेयं रिक्थमृक्थं धनं वसु । हिरण्यं द्रविणं द्युम्नमधेरैविभवा अपि ॥ ९४७ १ अयमर्धश्लोको मुकुटपुस्तकेषु नोपलभ्यते. २ स्यादित्यन्तं पादद्वयं मुकुटे नास्ति. ३ इत्वरश्च. ४ 'पष्ठवाह'. ५ 'वष्कायणी'. ६ 'बन्धनी'. ७ 'कुटपः' इत्यपि, For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy