________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१० लिङ्गानुशासनम् । अभिधानद्वीपिनौ निपानः शयनं लशुनरसोनगृञ्जनानि ।
खलिनखलीनानुमानदीपाः कुणपकुतपावापचापशूर्पाः ।। स्तूपोडुपौ विटपमण्डपशष्पवाष्पद्वीपानि विष्टपनिपौ शेफडिम्बविम्बाः ।
जम्भः कुसुम्भककुभौ कलभो निभोऽर्मसंक्रामसंक्रमललामहिमानि हेमः ॥ १०८ उद्यमकामोद्यामाश्रमकुट्टिमकुसुमसंगमा गुल्मः | क्षेमक्षौमौ कम्बलिवाह्यो मैरेयती च ॥ १०९
पूयाजन्यप्रमयसमया राजसूयो हिरण्यारण्ये संख्यं मलयवलयौ वाजपेयः कषायः । शल्यं कुल्याव्ययकवियवद्गोमयं फारिहार्यः पारावारातिखरशिखरक्षेत्रवस्त्रोपवस्त्राः ॥ ११०
अलिंजरः कूवरकूरवेरनीहारहिञ्जीरसहस्रमेढ़ाः ।। संसारसीरौ नुवरश्च सूत्रशृङ्गारपण्डान्तरकर्णपूराः ॥
१११ नेत्रं वक्रपवित्रपत्रसमगेशीरान्धकारा वरः केदारप्रवरौ कुलीरशिशिरावाडम्बरो गह्वरः । क्षीरं कोटरचक्रचुऋतिमिगङ्गारास्तुषारः शरः भ्राष्ट्रोपहरराष्ट्रतक्रजठरार्द्राः कुञ्जरः पञ्जरः ॥ ११२
कर्पूरनपुरकुटीरविहारवारकान्तारतोमरदुरोदरवासराणि । कासारकेसरकरीरशरीरजीरमञ्जीरशेखरयुगंधरवञवप्राः ॥
११३ आलवालपलभालपलालाः पल्वलः खलचषालविशालाः । शूलमूलमुकुलास्तलतैलौ तूलकुङ्मलतमालकपालाः ॥
११४ कवलप्रवालवलशम्बलोत्पलोपलशीलशैलशकलाङ्गुलाञ्चलाः । कमलं मलं मुशलसालकुण्डलाः कललं नलं निगलनीलमङ्गलाः ॥
११५ काकोलहलाहलौ हलं कोलाहलकङ्कालवल्कलाः । सौवर्चलधूमले फलं हालाहलजम्बालखण्डलाः॥११६ लाङ्गलगरलाविन्द्रनीलगाण्डीवगाण्डिवाः । उल्वः पारशवः पार्थापूर्वत्रिदिवताण्डवम् ॥ ११७ निष्ठेवप्रग्रीवशरावरावौ भावक्लीवशवानि । दैवः पूर्वः पल्लवनल्वौ पाशं कुलिशं कर्कशकोशौ ॥ ११८
आकाशकाशकणिशाङ्कशशेषवेषोष्णीषाम्बरीषविषरोहिषमाषमेषाः । प्रत्यूषयूषमथ कोषकरीषकर्षवर्षामिषा रसवसेक्थसचिक्कसाश्च ॥
कर्पास आसो दिवसावतंसवीतंसमांसाः पनसोपवासौ।। निर्यासमासौ चमसांसकांसस्नेहानि वहाँ गृहगेहलोहाः ॥ पुण्याहदेहौ पटहस्तनूरुहो लक्षोडेररिस्थाणुकमण्डलूनि । चाटुश्चटुर्जन्तुकशिप्वणुस्तथा जीवातुकुस्तुम्बुरुजानुसानु ॥
१२१ कम्बुः शङ्कीर्वगुरुवास्तुपलाण्डु हिङ्गुः शिग्रुदौस्तितनुः सीध्वथ भूमा । वेम प्रेम ब्रह्म गहल्लोम विहायः कर्माष्ठीवरपक्ष्मधनुर्नाममहिनी ॥
इति पुनपुंसकलिङ्गाः ।
११९
१२२
१. पान्ता:. २. फान्तः. ३. बान्ती. ४. भान्ता:. ५. मान्ता:. ६. यान्ता:. ७. रान्ता:. ८. लान्ताः. ९. तालव्यादिरपि. १०. वान्ताः. ११. शान्ताः. १२. षान्ताः. १३. सान्ताः. १४. हान्ताः. १५. क्षान्तः. १६. अररिरिकारान्तः. १७. अथोकारान्ताः, १८. दोषशब्दस्य व्यञ्जनान्तस्यापि मध्ये पाठश्छन्दोनुरोधात्. १९. अथ व्यञ्जनान्ताः
For Private and Personal Use Only