________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० लिङ्गानुशासनम् । सैन्धवो लवणे, भूतः प्रेते, तमो विधुतुदे । स्वदायौ कस्वरे, कुच्छं व्रते, शुक्रोऽग्निमासयोः ॥ ९० कर्पूरस्वर्णयोश्चन्द्र उडाद्वेक्षश्छदे दलः । धर्मः स्वभावे रुचको भूषाभिन्मातुलुङ्गयोः ॥ पाताले वाडवो वः सीसे आमलकः फले । पिटजङ्गलसत्त्वानि पिटकामांसजन्तुषु ॥ ९२ मधुपिण्डौ सुरातन्वोर्नाम शेवालमध्ययोः । एकाद्रात्रः समाहारे तथा सूतककूलकौ ॥
वैनीतकभ्रमरको मरको वलीकवल्मीकवल्कपुलकाः फरकव्यलीको । किंजल्ककल्कमणिकस्तबकावतङ्कवर्चस्कचूचुकतडाकतटाकतङ्काः ॥
बालकः फलकमालकालका मूलकस्तिलकपकपातकाः । कोरकः करककन्दुकान्दुकाः नीकनिष्कचषका विशेषकः ।। शाटककण्टकटविटङ्का मञ्चकमेचकनाकपिनाकाः ।
पुस्तकमस्तकमुस्तकशाका वर्णकमोदकमूषिकमुष्काः ॥ चण्डातकश्वरकरोचककञ्चकानि मस्तिष्कयावककरण्डकतण्डकानि । आतङ्कशकसरकाः कटकः सशुल्कः पिण्याकझर्झरकहंसक शङ्खपुङ्खाः ॥ नखमुखमैधिकाङ्गः संयुगः पद्मरागो भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः । क्रेकचकवचकूर्चार्धर्चपुच्छोञ्छकच्छाः ब्रजमुटजनिकुऔ कुञ्जमूर्जाम्बुजाश्च ॥ ९८ ध्वजमलयजकूटाः कालकूटारकूटौ कवटकपटखेटाः कर्पटः पिष्टलोष्टौ ।। नटनिकटकिरीटाः कर्वटः कुक्कुटाट्टौ कुटयकुटविटानि व्यङ्गटः कोट्टकुष्ठाः ॥ ९९
कमठो वारुण्डखण्डषण्डा निगडाक्रीडनडप्रकाण्डकाण्डाः ।
कोदण्डतरण्डमण्डमुण्डा दण्डाण्डौ हूँढेवारबाणबाणाः ॥ कार्षापणश्रवणपक्कणकंकणानि द्रोणापराह्णचरणानि तृणं सुवर्णम् । स्वर्णव्रणौ वृषणभूषणदूषणानि भाणस्तथा किणरणप्रवणानि चूर्णः ।।
तोरणपूर्तनिकेतनिवाताः पारतमन्तयुतप्रयुतानि ।
क्ष्वेडितमक्षतदैवतवृत्तैरावतलोहितहस्तशतानि ॥ व्रतोपवीतौ पलितो वसन्तध्वान्तायुतगतधृतानि पुस्तः । शुद्धान्तवुस्तौ रजतो मुहूर्तद्वियूथयूथानि वरूथगूधौ । प्रस्थं तीर्थं प्रोमलिन्दः ककुदः कुकुदाष्टापदकुन्दाः । गुददोहदकुमुदच्छदकन्दाधुंदसौधमथोत्सेधकबन्धौ ॥ श्राद्धायुधान्धौषधगन्धमादनप्रस्फोटना लग्नपिधानचन्दनाः । वितानराजादनशिश्भयौवनापीनोदपानासनकेतनाशनाः ॥ नलिनपुलिनमौना वर्धमानः समानौदनदिनशतमाना हायनस्थानमानाः । धननिधनविमानास्ताडनस्तेनवस्ता भवनभुवनयानोद्यानवातायनानि ।।
१०३
१. धने. २. नक्षत्रे ऋक्षम् . ३. यथासंख्येन. ४. यथासंख्येन. ५. अथ कान्ताः. ६. खान्ताः. ७. गान्ताः ८. घान्तः. ९. चान्ताः. १०. छान्ताः. ११, जान्ताः. १२. टान्ताः. १३. ठान्तौ. १४. डान्ताः. १५. ढान्त:. १६. णान्ताः, १७. तान्ताः. १८. थान्ताः. १९. दान्ताः. २०. धान्ताः, २१, नान्ताः.
For Private and Personal Use Only