________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
अभिधानसंग्रहः – १ नामलिङ्गानुशासनम् ।
४०२
४०८
४०९
४१०
४११
माध्यं कुन्दं रक्तस्तु बन्धूको बन्धुजीवकः | सहा कुमारी तरणिरम्लानस्तु महासहा ॥ ३९९ तत्र शोणे कुरवकस्तत्र पीते कुरण्टकः । नीला झिण्टी द्वयोर्वाणा दासी चार्तगलश्च सा ॥। ४०० मैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरवको ऽरुणे । पीता कुरण्टको झिण्टी तस्मिन्सहचरी द्वयोः || ४०१ ओपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत् । प्रतिहास शतप्रासचण्डातहयमारकाः ॥ करवीरे करीरे तु क्रकरग्रन्थिलावुभौ । उन्मत्तः कितवो धूर्तो धेत्तूरः कनकादयः ॥ मातुलो मदनश्चास्य फले मातुलपुत्रकः । फलपूरो बीजपूरो रुचको मातुलुङ्गके ॥ समीरणो मरुत्रकः प्रस्थपुष्पः फणिज्जकः । जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ ॥ सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः । अर्कावसुकास्फोटगणरूपविकीरणाः || मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ । शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः ॥ बन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि । वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता ॥ जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि । मूर्वा देवी मधुरसा मोरटा तेजनी कुँवा ॥ मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि । पाठाम्वष्टा विद्धकर्णी स्थापनी श्रेयसी रसा || एकाष्ठीला पापचेली प्राचीना वनतिक्तिका | कटुः कैटभराशीकरोहिणी कटुरोहिणी ॥ मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी । आत्मगुप्ताजहांव्यण्डा कण्डुरा प्रावृषायणी || ४१२ ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी | चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा ४१३ I प्रत्यक्श्रेणी सुतश्रेणी रण्डामूषिकपर्ण्यपि । अपामार्गः शैखरिको धामार्गवमयूरकौ ॥ ४१४ प्रकर्णी शपर्णी किणिही खरमञ्जरी । 'हैञ्जिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ ४१५ अङ्गारवल्ली वाले शाकवर्वरवर्धकाः । मञ्जिष्ठा विकेसा जिङ्गी समङ्गा कालमेषिका ॥ ४१६ मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि । यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः।। ४१७ रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा । पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यविल्लिका ॥ ४१८ कोटुविन्ना सिंहपुच्छी कलशिर्धावनिर्गुहा । निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ॥ ४१९ प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि । नीली काला कीतकिका ग्रामीणा मधुपर्णिका ॥ ४२० रञ्जनी श्रीफली तुत्था द्रोणी दोल च नीलिनी । अवल्गुजः सोमराजी सुवलि: सोमवल्लिका ||४२१ कालमेत्री कृष्णफला बकुची पूतिफल्यपि । कृष्णोपकुल्या वैदेही मागधी चपला कणा ॥ ४२२ पण पिप्पली शौण्डी कोलाथ करिपिप्पली । कपिवल्ली कोलवल्ली श्रेयसी 'वैशिरः पुमान् ॥ ४२३ व्यं तु चविका काकचिश्रीगुझे तु कृष्णला । पलंकषा लिनुगन्धा श्रदंष्ट्रा स्वादुकण्टकः || ४२४ गोटको गोक्षुरको वनशृङ्गाट इत्यपि । विश्वा विषा प्रतिविषातिविषोपविषारुणा || ४२५ शृङ्गी महौषधं चाथ श्रीरावी दुग्धिका समे । शतमूली बहुसुताभीरुरिन्दीवरी वरी ॥ ऋष्यप्रोक्ताभीरुपत्री नारायण्यः शतावरी । अहेरुरथ पीतडुकालीयक हरिद्रवः || दाव पचपचा दारुहरिद्रा पर्जनीयपि । वचोयगन्धा षड्ग्रन्था गोलोमी शतपविका ॥ शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वौशिका । वृषोsटरूपः सिंहास्यो वासको वाजिदन्तकः || ४२९
४२६
४२७
४२८
For Private and Personal Use Only
४०३
४०४
४०५
४०६
४०७
१ 'जवा' इत्यपि २ धुस्तूरोऽपि २ 'खवा' इत्यपि ४ 'अविद्धकर्णी' ३ 'कटंवरा'. ६ 'जडा' ७ 'अध्यण्डा'. ८ 'प्रत्यक्पुष्पी ' ९ 'कीशपर्णी' १० 'फञ्जिका' ११ 'विकपा' १२ तालव्यशः १३ 'धनुर्यासः' १४ 'मेला'. १५ ' वागुजी'. १६ 'ऊपणा' १७ दन्त्यवान्. १८ 'पचंवचा' १९ दन्त्यमध्यापि