________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम् — ४ वनौषधिवर्गः ।
३७०
३७४
३७५
३७६
३७७
३७९
३८०
३८२
३८३
सर्जकासनबन्धूकपुष्पप्रियकजीवकाः । साले तु सर्जकार्याश्वकर्णकाः सस्यसम्बरः ॥ नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः । राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः ॥ २७१ इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुलचौ । पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः ॥ ३७२ पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः । चिरबिल्वो नक्तमालः करजश्च करञ्जके || ३७३ प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः । करञ्जभेदाः षड्यन्थो मर्कट्यङ्गारवल्लरी | रोही रोहितकः लीहशत्रुर्दाडिमपुष्पकः । गायत्री बालतनयः खदिरो दन्तधावनः || अरिमेदो विट्खदिरे कदरः खदिरे सिते । सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ एरण्ड उरुवूकश्च रुचकश्चित्रकश्च सः । चक्षुः पञ्चाङ्गुलो मॅण्डवर्धमानव्यडम्बकाः || अल्पा शमी शमीरः स्याच्छमी सक्तफला शिवा । पिण्डीतको मरुवकः श्वसनः करहाटक || ३७८ शल्यश्च मदने शक्रपादपः पारिभद्रकः । भद्रदारु दुकिलिमं पीतदारु च दारु च ॥ पूतिकाष्टं च सप्त स्युर्देवदारुण्यथ द्वयोः । पाटलिः पाटलामोघा काचस्थाली फलेरुहा ॥ कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाद्दया । लता गोवन्दनी गुन्द्रा प्रियंगुः फलिनी फली ||२८१ विश्वक्सेना गन्धफली कारम्भा प्रियकच सा । मण्डूकपर्णपत्रोर्णनटकट्टुङ्गटुण्टुकाः ॥ स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः । शोणकचरलौ तिष्यफला लामलकी त्रिषु ॥ अमृता च वैयस्था च त्रिलिङ्गस्तु विभीतकः । नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः || ३८४ अभया त्वव्यथा पथ्या कायस्था पूतनामृता । हरीतकी हैमवती चेतकी श्रेयमी शिवा ॥ ३८५ पीतदुः सरलः पूतिकाष्टं चाथ द्रुमोत्पलः । कर्णिकारः परिव्याधो लकुचो लिकुचो बहुः || ३८६ पेनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः । काकोदुम्बरिका फल्गुर्मलयूर्जघने फला अरिष्टः सर्वतोभद्रहिनिसमालकाः । पिचुमन्दश्च निम्बेऽथ पिछलगुरु शिंशपा ॥ कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः । भण्डिलोऽप्यथ चाम्पेयञ्चम्पको हेमपुष्पकः ॥ एतस्य कलिका गन्धफली स्यादथ केसरे । बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ || चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः । जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ श्रीपर्णमग्निमन्थः स्यात्कणिका गणिकारिका । जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका ।। ३९२ एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले । कृष्णपाकफलाविग्नसुषेणाः करमर्दके || ३९३ कालस्कन्धस्तमालः स्यात्तापिच्छोऽप्यथ सिन्दुके | सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि ॥३९४ वेणी खरा गरी देवताडो जीमूत इत्यपि । श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका ॥ ३९५ भूपदी शीतभीरुच सैवस्फोटा वनोद्भवा । शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ।। ३९६ सितासौ श्वेतसुरसा भूतवेश्यथ मागधी । गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका || ३९७ अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता । सुमना मालती जातिः सप्तला नवमालिका ॥ ३९८
३८७ ३८८
।
३८९
३९०
३९१
For Private and Personal Use Only
१५
१ 'अशन: ' तालव्यादिरपि २ 'राजाननम्' इति पाठान्तरम् ; 'राज्ञादनफलम्' इत्येकं नाम, 'अध्यक्षम् ' इत्यन्ये-इति मुकुटः ३ दीर्घमध्योऽपि ४ 'कारक : ' ५ नान्तोऽपि. ६ 'बालपत्रश्च' इति मूलपाठः ७ 'अमण्ड', आमण्डश्च. ८ मोत्रापि. ९ अरटुरपि १० कायस्थापि ११ 'पणस इत्यपि पाठः' इति सर्वधरः - इति मुकुटः १२ इज्जलोऽपि १३ 'अगुरुशिंशपा इत्येकं नाम' इति स्वामी - इति मुकुटः १४ रेफान्तोऽपि १५ 'सिन्धुकः ' इति मुकुट १६ 'आस्फोता' इत्यपि.