________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । विधवायां सिग़लायां करभो मय उष्ट्रके । अङ्गुलेश्च कनिष्ठाया मणिबन्धस्य चान्तरे ॥ १०५२ ककुभो वीणाप्रसेवे रागभेदेऽर्जुनद्रुमे । कुसुम्भं तु शातकुम्भे स्याल्लट्वायां कमण्डलौ ॥ १०५३ गर्दभो गसभे गन्धे गर्दभी जन्तुरुग्भिदोः । गर्दभं कुमुदभेदे दुर्लभः कच्छरे प्रिये ॥ १०५४ दुष्प्रापेऽपि दुन्दुभिस्तु भेर्या दितिसुते विषे । अक्षविन्दुत्रिकद्वन्द्वे निकुम्भः कुम्भकर्णजे ॥१०५५ दन्त्यां च वल्लभोऽध्यक्षे कुलीनाश्वे प्रियेऽपि च । वर्षाभूः पुनर्नवायां स्याद्गण्डूपदभेकयोः ॥१०५६ विष्कम्भो विस्तृतौ योगविशेषप्रतिबन्धयोः । योगिनां च बन्धभेदे रूपकावयवेऽपि च ॥ १०५७ विश्रम्भः केलिकलहे विश्वासे प्रणये वधे । वृषभः स्यादादिजिने वृषपुंगवयोरपि ॥ १०५८ सनाभिऊतिसदृशोः सुरभिर्हेनि चम्पके । जातिफले मातृभेदे रम्ये चैत्रवसन्तयोः ॥ १०५९ सुगन्धौ गवि मल्लक्यामधमो न्यूनगयोः। आगमस्त्वागतौ शास्त्रेऽप्याश्रमो व्रतिनां मटे १०६० ब्रह्मचर्यादिचतुप्केऽप्युत्तमा दुग्धिकोषधौ । उत्तमं तु प्रधाने स्यात्कलमः शालिचौरयोः ॥ १०६१ कुसुमं स्त्रीरंजोनेत्ररोगयोः फलपुष्पयोः । कृत्रिमं लवणभेदे कृत्रिमः कृतसिहयोः ॥ १०६२ गोधूमो भेषजे नागरङ्गवीहिप्रभेदयोः । गोलोमी वारयोषायां षड्यन्धासितदूर्वयोः ॥ १०६३ गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः । गौतम्युमायां रोचन्यां तलिमं तल्पखगयोः ॥ १०६४ विनाते कुट्टिमे चापि दाडिमः करकैलयोः । निष्क्रमो निर्गमे बुद्धिसंपत्तौ दुष्कुलेऽपि च १०६५ नियमः स्यात्प्रतिज्ञायां निश्चये यन्त्रणे व्रते । निगमाः पूर्वणिग्वेदनिश्चयावणिक्पथाः ॥ १०६६ नैगमो नयपौरोपनिषतिषु वाणिजे । प्रथमः स्यात्प्रधानाद्योः प्रक्रमोऽवसरे क्रमे ॥ १०६७ पञ्चमो रुचिरे दक्षे पञ्चानामपि पूरणे । रागभेदे पञ्चमी तु द्रौपद्यां परमः परे ॥ १०६८ अग्रेसरप्रथमयोरोङ्कारे परमं पुनः । स्यादव्ययमनुज्ञायां प्रतिमा प्रतिरूपके ॥ १०६९ गजस्य दन्तबन्धे च] मध्यमो मध्यजे स्वरे । देहमध्ये मध्यदेशे मध्यमा कणिकाङ्गुलिः ॥ १०७० रॉका रजस्वला चापि व्यायामः पौरुषे श्रमे । वियामे दुर्गसंचारे विलोममरघट्टके ॥ १०७१ विलोमो वरुणे सर्प प्रतीपे कुर्कुरेऽपि च । विलोमी स्यादामलक्यां विक्रमः शक्तिसंपदि १०७२ क्रान्तौ च विद्रुमो वृक्षे प्रवालेऽप्यथ विभ्रमः। शोभायां संशये हाँवे सत्तमः श्रेष्ठपूज्ययोः १०७३ साधिष्टे संभ्रमो भीतौ संवेगादरयोरपि । सुपीमः शिशिरे रम्ये सुषुमं रुचिरे समे ॥ १०७४ सुषमा तु स्यात्परमशोभायां कालभिद्यपि । अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छयोः ॥१०७५ अवध्यमवधा] स्यादनर्थकवचस्यपि । अभयमुशीराभीत्योरभया तु हरीतकी ॥ १०७६ अनयोऽशुभदैवे स्याद्विपद्व्यसनयोरपि । अश्वीयमश्वसङ्ग्रेऽश्वहितेऽधृष्यः प्रगल्भके ॥ १०७७ अधृष्या निम्नगाभेदेऽहल्या गौतमयोषिति । सरोभेदेऽप्यभिख्या तु शोभायां कीर्तिसंज्ञयोः१०७८ अहार्यो हर्तुमशक्ये शैलेथाशय आश्रये । अभिप्रायपनसयोरादित्यस्त्रिदशार्कयोः ॥ १०७९
१. 'भय उ' ख. २. 'रोगभे' ग-घ. ३. 'मञ्जिष्ठायां क' ख. ४. 'कुमुदे श्वेते' ख; 'सितकुमुदे' ग-घ. ५. 'कच्छपे' ख. ६. 'विशे' घ. ७. 'अर्धबि' ग-घ. ८. 'शल्लक्याम्' ख-ग-घ. ९. 'राजन्याम्' ग-घ. १०. 'वणि' ख. ११. 'दृतिपु' ख-ग-घ. १२. 'आकारे' ख; 'अकारे' ग-घ. १३. 'प्रतिमः प्रतिरूपके' ख; धनुचिहान्तर्गतपाटो ग-घ-पुस्तकयोस्त्रुटितः. १४. 'कन्यार' ग-घ. १५. 'कुक्कुरे' ग-घ. १६. 'ऋतौ' ख. १७. 'भावे' ख. १८. 'सुषमम्' ख. १९. 'विक्रमे ख. २०. 'अश्वीयमश्वनिवहे तथाश्वस्य हितेऽपि च । अव्ययः शब्दभेदेऽपि निर्व्यये परमेश्वरे । अगस्त्यो सुनौ द्रुभेदे स्यात्' इति ग-घ-पुस्तकयोरधिकः पाठः, २१. 'अप्याश' ख-ग-घ.
For Private and Personal Use Only