________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम्-४ वनौषधिवर्गः । आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी । संमार्जनी शोधनी स्यात्संकरोऽवकरस्तथा ॥ ३१६ क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम् । समौ संवसथग्रामौ वेश्मभूस्तुरस्त्रियाम् ॥ ३१७ प्रामान्तमुपशल्यं स्यात्सीमसीमे स्त्रियामुभे । घोष आभीरपल्ली स्यात्पक्कणः शबरालयः ॥ ३१८
__इति पुरवर्गः ॥२॥ महीधे शिखरिक्ष्माभृदहार्यधरपर्वताः । अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ ३१९ लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ । अस्तस्तु चरमः क्ष्माभृदुदयः पूर्वपर्वतः ॥ ३२० हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रकः । गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३२१ पाषाणप्रस्तरमावोपलाश्मानः शिला ईषत् । कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः ।। ३२२ कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् । उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः ३२३ दरी तु कंदरो वा स्त्री देवखातबिले गुहा । गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः ॥ ३२४ खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः । उपत्यकानेरासन्ना भूमिरूव॑मधित्यका ॥ ३२५ धातुर्मनःशिलाद्यद्रेगैरिकं तु विशेषतः । निकुञ्जकुऔ वा क्लीवे लतादिपिहितोदरे ॥ ३२६
इति शेलवर्गः ॥३॥
अटव्यरण्यं विपिनं गहनं काननं वनम् । महारण्यमरण्यानी गृहारामास्तु निष्कुटाः ॥ ३२७ आरामः स्यादुपवनं कृत्रिमं वनमेव यत् । अमात्यगणिकागेहोपवने वृक्षवाटिका ॥ पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् । स्यादेतदेव प्रमदवनमन्तःपुरोचितम् ।। वीथ्यालिरावलिः पतिः श्रेणी लेखास्तु राजयः । वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि ॥ ३३० वृक्षो महीरुहः शाखी विटपी पादपस्तरुः । अनोकहः कुटः सालः पलाशी द्रुद्रुमागमाः ॥ ३३१ वानस्पत्यः फलैः पुष्पात्तैरपुष्पावनस्पतिः । ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः ॥ ३३२ वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली । प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः ॥ ३३३ फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु । स्थाणु वा ना ध्रुवः शङ्खईस्व शाखाशिफः क्षुपः ॥ ३३४ अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु बॅततिलता । लता प्रतानिनी वीरुगुल्मिन्युलप इत्यपि ॥ ३३५ नगाद्यारोह उच्छाय उत्सेधश्चोच्छ्यश्च सः। अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः३२६ समे शाखालते स्कन्धशाखाशाले शिफाजटे । शाखाशिफावरोहः स्यान्मूलाच्चानं गता लता।।३३७ शिरोऽग्रं शिखरं वा ना मूलं बुध्नोऽधिनामकः। सारो भज्जा नेरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम् ३३८ काष्ठं दार्विन्धनं वेध इध्ममेधः समित्स्त्रियाम् । निष्कुहः कोटरं वा ना वल्लरिम अरिः स्त्रियौ ॥३३९ पत्रं पलाशं छदनं दलं पण छदः पुमान् । पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ॥ ३४० वृक्षादीनां फलं संस्यं वृन्तं प्रसवबन्धनम् । आमे फले शलाटः स्याच्छुष्के वानमुभे त्रिषु ॥ ३४१ क्षारको जालकं क्लीव कलिका कोरकः पुमान् । स्याद्रुच्छकस्तु स्तबकः कुट्मलो मुकुलोऽस्त्रियाम् ३४२
१ 'निःश्रेणिः'. २ 'तालव्यमध्यापि' इति सर्वधरः-इति मुकुटः. ३ 'झरा', 'झरिः', 'झरी'. ४ एतदने 'दन्तकास्तु बहिस्तियक्प्रदेशान्निर्गता गिरेः' इति प्रक्षिप्तम्. ५ मूर्धन्यान्त्योऽपि. ६ 'वेल्लिः' इत्यपि, ७ प्रततिश्च. ८ नान्तः, टाबन्तापि. ९ 'समौ' इति मुकुटपाठः, १० तालव्याद्यपि. ११ दन्त्योष्मान्त्योऽपि,
For Private and Personal Use Only