________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४
अभिधान संग्रह :: -८ अनेकार्थसंग्रहः ।
।
७९
1
८४
श्मश्रुणि दम्भे भ्रूमध्ये क्रौञ्चो द्वीपे खगे गिरौ । चर्चा स्याच्चर्ममुण्डायां चिन्तास्थासकयोरपि ॥ ७२ चक्षुः पञ्चाङ्गुले त्रोट्ठ्यां नीचः पामरखर्वयो: । मोचा शाल्मलिकदल्योर्मोचः शिश्रौ रुचिर्युतौ७३ स्पृहाभिष्वङ्गशोभासु वचः शुके वचौषधौ । शारिकायां विच्याल्यूम्यरवकाशे सुखात्पयोः ॥ ७४ शचीन्द्राणीशतावर्योः शुचिः शुद्धे सितेऽनिले । ग्रीष्माषाढानुपहतेषूपधाशुद्धमत्रिणि ॥ ७दे शृङ्गारे सूच्यभिनये व्यधने करणे स्त्रियाम् । अच्छो भछूके स्फटिकेऽमलेऽच्छाभिमुखेऽव्ययम् ७६ कच्छो दुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च । कच्छास्तु देशे कच्छा स्यात्परिधानार्पराञ्चले ॥ ७७ वाह्यां च गुच्छो गुच्छे हारकलापयोः । पिच्छः पुच्छे पिच्छं वाजे पिच्छा शाल्मलिवेष्टके ७८ पैंङ्कौ पूगच्छटाकोशमण्डेष्वश्वपदामये । मोचायां पिच्छिले म्लेच्छो जातिभेदेऽपभाषणे ॥ I अजछागे हरे विष्णौ रघुजे वेधसि स्मरे । अब्जो धन्वन्तरौ चन्द्रे शङ्खेऽब्जं पद्मसंख्ययोः ८० आजिः क्षणे समक्ष्मायां युध्यूर्जः कार्तिके बले । कंजो वेधसि केशे च कंजं पीयूषपद्मयोः ॥ ८१ कुञ्जो नौ दन्तिदन्ते निकुञ्जे च कुजो द्रुमे । आरे नरकदैये च कुब्जो न्युब्जद्रुभेदयोः ॥ ८२ खजा दवमथोः खर्जूः खर्जूरीकीटकण्डुषु । गजो भाण्डागारे रीढाखन्योर्गञ्जा सुरागृहे ॥ ८३ गुञ्जा तु कृष्णलायां स्यात्पटहे मधुरध्वनौ । द्विजो विप्रक्षत्रिययोर्वैश्ये दन्ते विहंगमे || द्विजा भार्गीरेणुकयोर्ध्वजः पूर्वदिशो गृहे । शिने चिह्ने पताकायां खट्वाङ्गे शौण्डिकेऽपि च || ८५ निजो नित्ये स्वकीये च न्युब्ज: कुब्जे कुशे खुचि । अधोमुखेऽपि च न्युब्जं कर्मरङ्गतरोः फले ॥ ८६ प्रजा लोके संततौ च पिञ्जा तूलहरिद्रयोः । पिजो व्य वधे पिअं बले बीजं तु रेतसि ॥ ८७ स्वादाने च तच तावङ्करकारणे । भुजो बाहौ करे मैर्जूः शुद्धौ च रजकेऽपि च ॥ ८८ -राजी रेखायां पङ्कौ च रुजा त्वामयभङ्गयोः । लञ्जः पट्टे च कच्छे च लाजः स्यादातण्डुले ॥८९ लाजास्तु भृष्टधानाः स्युर्लाजं पुनरुशीरके । व्रजोऽध्वगोष्ठसंघेषु वणिग्वाणिज्यजीविनि ॥ ९० वाणिज्ये करणभेदे वाजं सर्पिषि वारिणि । यज्ञान्ने बाजस्तु पक्षे मुनौ निस्वनवेगयोः ॥ ९१ व्याजः शाठ्येऽपदेशे च सज्जौ संनद्धसंभृतौ । सयौ ब्रह्मशिवौ प्रज्ञः प्राज्ञे प्रज्ञा तु शेमुषी ।। ९२ यज्ञः स्यादात्मनि मखे नारायणहुताशयोः । संज्ञा नामनि गायत्र्यां हस्ताद्यैरर्थसूचने ॥ चेतनार्कस्त्रियोरट्टो हट्टाट्टालकयोर्भृशे । चतुष्कभक्तयोरिष्टमीप्सिते ऋतुकर्मणि पूज्ये प्रेयसि संस्कारे योगेऽथेष्टिर्मखेच्छयोः । संग्रहश्लोकेऽथ कटो गजगण्डे कटौ भृशम् ॥ ९५ शवे शवरथौषध्योः क्रियाकार श्मशानयोः । किलिञ्जे समये चापि कष्टं गहनकृच्छ्रयोः ॥ कटुकार्ये मत्सरे च दूषणे च कटू रसे । तिक्ते प्रियङ्गुसुरभिकटुकाराजिकास्वपि ॥ कुट: कोटे शिलाकुट्टे गेहे घटे कुटी सुरा । चित्रगुच्छः कुम्भदासी कूटं पूरयन्त्रयोः ॥ मायादम्भाद्रिशृङ्गेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोघने राशौ कृष्टिः कर्षणधीमतोः ॥ कोटयुत्कर्षाटनीसंख्यात्रिषु खटस्तृणे कफे । टङ्केऽन्धकूपे प्रहारे खाटिः शवरथे किणे ॥ एकग्रहेऽथ खेटः स्यानामभेदे कफेऽधमे । स्फारे मृगव्ये गृष्टिस्तु सकृत्सूतगवी भवेत् ॥ १०१ वराहक्रान्ता च घटा घटने गजसंहतौ । गोष्ठयां घटविभशिरः कूटे समाधिकुम्भयोः ॥ १०२
९३
९४
९६
1
९७
९८
१०००
Acharya Shri Kailassagarsuri Gyanmandir
१. 'पटाञ्चले' ख. २. 'पिच्छस्तुच्छे' ख ३. 'पङ्किपूग' ख ग घ ४. 'कुशस्रुचि' क. ५. 'मर्ज' ख. ६. ‘धान्ये’ ख. ७. ‘घृते च’ ख. ८. 'यज्ञान्ते' 'क-ख. ९ ' तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्' इति वाक्यव्याख्यायां 'वाजोऽन्नम्' इति मीमांसकैरुक्तत्वात्. १०. 'कान्ता' ख ग घ.
For Private and Personal Use Only
1