________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.०
अभिधान संग्रह: -- १ नामलिङ्गानुशासनम् |
विष्टिराजूः कारणा तु यातना तीव्रवेदना | पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् ॥ २३४ म्यात्कष्टं कुच्छ्रमाभीलं त्रिप्वेषां भेद्यगामि यत् ॥ २३५
इति नरकवर्गः ॥ ९ ॥
२३७
२३९
२४०
समुद्रोऽव्धिर्रकूपारः पारावारः सरित्पतिः । उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ २३६ रत्नाकरो जलनिधिर्यादः पतिरपपतिः । तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ आपः स्त्री भूनि वारि सलिलं कमलं जलम् । पयः कीलालममृतं जीवनं भुवनं वनम् ॥ २३८ कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् । अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् || मेघनरसत्रिषु आप्यमस्मयम् । भङ्गस्तरङ्ग ऊर्मिव स्त्रियां वीचिरथोर्मिषु ॥ महत्मूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः । षन्तिविन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम् ॥ २.४१ चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः । कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ २४२ पारावारे परार्वाची तीरे पात्रं तदन्तरम् । द्वीपोऽखियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ २४३ तोयोत्थितं तत्पुलिनं मैकतं सिकतामयम् । निषद्धरस्तु जम्वालः पङ्कोऽस्त्री शादकर्दमौ ॥ २४४ जलच्छासाः परीवाहाः कूपकास्तु विदारकाः । नाव्यं त्रिलिङ्गं नौतायें स्त्रियां नौस्तरणिस्तरिः || २४५ उडुपं तु लवः कोलः स्रोतोऽम्बुसरणं स्वतः । आतरस्तरपण्यं स्याद्दोणी काष्ठाम्बुवाहिनी ॥ २४३ सांयात्रिकः पोतवणिक्कर्णधारस्तु नाविकः । नियामकाः पोतवाहाः कूपको गुणवृक्षकः ॥ २४७ नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः । अभिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम् ||२४८ क्लीवेऽर्धनाचं नावोऽऽतीतनौकेऽतिनु त्रिषु । त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविल : २४९ निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये । अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ ॥ २५० आनायः पुंसि जालं स्यात्संणसूत्रं पवित्रकम् । मत्स्याधानी कुवेणी स्याद्वडिशं मत्स्यवेधनम् || २५१ पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः । विसारः शकली चाथ गडकः शकुलार्भकः ॥ २५२ महस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ । नलमीनश्चिलिचिमः प्रोष्टी तु शफरी द्वयोः || 1 २५३ क्षुद्राण्डमत्स्यसंवातः पोताधानमथो झपाः । रोहितो महुरः शीलो राजीवः शकुलस्तिमिः || २५४ तिमिंगिलादयञ्चाथ यादांसि जलजन्तवः । तद्भेदाः शिशुमारोद्रशङ्गवो मकरादयः ॥ २५५ स्यात्कुलीरः कर्कटकः कूर्मे कमटकच्छपौ । ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता ॥ २५६ गण्डूपदः किंचुलको निहाका गोधिका समे । रक्तपा तु जलौकायां स्त्रियां 'भूनि जलौकसः || २५७ मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ । क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः २५८ भेके मण्डूकवर्षाभूशालूलबदर्दुराः । शिली गण्डूपदी भेकी वर्षाभ्वी कमटी डुलिः ॥ मदुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका | जलाशयो जलाधारस्तत्रागाधजलो हृदः || आहावस्तु निपानं स्यादुपकूपजलाशये । पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा ॥
२५९
For Private and Personal Use Only
२६०
२६१
१ 'अकुवार:' इत्यन्ये - इति मुकुटः २ पवर्गादिमध्योऽपि ३ 'कम्, अन्धम्' इति नामद्वयमित्येके, म कारमध्यं ‘कमन्धम्' इत्यपरे - इति मुकुटः ४ इकारान्तमेव गृह्यते, अतएव बहुवचनम् ५ 'वक्राणि'. ६ 'द्रुणि: '. ७ दन्त्यान्त्योऽपि. ८ 'दन्त्यादिः' इति सर्वधरः, 'तालव्यादिरपि' इति पञ्जिका - इति मुकुट:. ९ चतुरिकावानपि १० दन्त्यादिरपि ११ एकवचनान्तत्वेऽपि प्रयोगा उपलभ्यन्ते. १२ ' दन्त्यादिरपि' इति पञ्जिकासर्वधरौ - इति मुकुट:.