________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ काण्डम् - ६ शब्दादिवर्गः ।
अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः । हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः || १५२ कृष्णे नीलासितश्यामकालश्यामलमेचकाः । पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ।। १५३ लोहितो रोहितो रक्तः शोणः कोकनदच्छविः । अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः || १५४ श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते । कडारः कपिलः पिङ्गपिशङ्गौ कडुपिङ्गलौ ॥ १५५ चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे । गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्रति ॥
१५६
इति धीवर्गः ॥ ५ ॥
७
१६०
१६२
१६३
ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरखती । व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ १५७ अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः । तिङ्सुवन्तचयो वाक्यं क्रिया वा कारकान्विता ।। श्रुतिः स्त्री वेद आम्नायत्री धर्मस्तु तद्विधिः । स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी ॥ १५९ शिक्षेत्यादि श्रुतेरङ्गमोंकारप्रणवौ समौ । इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः ॥ 1 आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः । आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् || १६१ प्रबन्धकल्पना कथा प्रवह्निका प्रहेलिका । स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ॥ समस्या तु समासार्था किंवदन्ती जनश्रुतिः । वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादधाह्वयः || आख्या अभिधानं च नामधेयं च नाम च । इतिराकारणाद्दानं संहृतिर्बहुभिः कृता ॥ १६४ विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् । उपोद्घात उदाहारः शपनं शपथः पुमान् ॥ १६५ प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे । मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् १६६ अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः । यशः कीर्तिः समज्या च स्तवः स्तोत्रं नुतिः स्तुतिः || आम्रेडितं द्वित्रिरुक्तमुचैर्बुष्टं तु घोषणा । काकुः स्त्रियां विकारो यः शोक भीत्यादिभिर्ध्वनेः ।। १६८ अवर्णाक्षेपनिर्वादपरीवादापवादवत् । उपकोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १६९ पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगी: । य: सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ॥ १७० तत्र त्वाक्षारणा यः स्यादाकोशो मैथुनं प्रति । स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः ।। १७१ अनुलापो मुहुर्भाषा विलापः परिदेवनम् । विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥ सुप्रलापः सुवचनमपलापस्तु निह्नवः । संदेशवारवाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे ||
१७२
१.७३
१७५
शती वागकल्याणी स्यात्कल्या तु शुभात्मिका । अत्यर्थमधुरं सान्त्वं संगतं हृदयंगमम् || १७४ निष्ठुरं परुषं ग्राम्यमशीलं सूनृतं प्रिये । सत्येऽथ संकुलक्लिष्टे परस्परपराहते || लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् । अम्बूकृतं संनिष्ठेवमँबद्धं स्यार्दनर्थकम् ।। अनक्षरमत्राच्यं स्यादाहतं तु मृषार्थकम् । अथ मिलष्टमविस्पष्टं वितथं त्वनृतं वचः ॥ सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति । शब्दे निनादनिनदध्वनिध्वानरवखनाः ॥
१.७६
१७७
१७८
For Private and Personal Use Only
१ 'गौः' इति पाठ: - इति बुधमनोहरा. २ ‘त्वसमासार्था' इत्यपि पाठः इति तु पूर्वटीकाकाराः । वयं तु 'समासाथी' इति पाटमेव क्षीरस्वामि-दट्टचन्द्र- कोक्कटादौ प्रायेणामरकोषेऽपि दृष्टवन्तः, अतस्तमेव बहु मन्यामहेइति मुकुटः ३ 'समज्ञा' इति मुकुटे पुरुषोत्तमः, 'समाज्ञा' इति स्वामी ४ एतदग्रे 'चोद्यमाक्षेपाभियोगो शापाकोशौ दुरेपणा । अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम् ॥' इति प्रक्षिप्तम् ५ 'उपती'. ६ 'सनिष्ठीवम्' ७ 'अवध्यम्' ८ 'अपार्थकम् ' ९ एतदग्रे 'सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम् । श्राव्यं हृयं मनोहारि विस्पष्टं प्रकटोदितम् ||' इति प्रक्षिप्तम्.