________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१ नामलिङ्गानुशासनम् । पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने । स्यात्तपस्यः फाल्गुनिकः स्याञ्चैत्रे चैत्रिको मधुः।।१२३ वैशाखे माधवो राधो ज्यैष्टे शुक्रः शुचिस्त्वयम् । आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः १२४ सुगुर्नभस्यप्रौष्टपदभाद्रभाद्रपदाः समाः । स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके ॥ १२५ बाहुलोर्जी कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् । वसन्ते पुष्पसमयः सुरभिीष्म उष्मकः॥१२६ निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः । स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्॥१२७ षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् । संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः१२८ मासेन स्यादहोरात्रः पैत्री वर्षेण दैवतः । दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ।। १२९ मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः । संवतः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ॥ १३० अस्त्री पङ्क्ष पुमान्पाप्मा पापं किल्बिषकल्मषम् । कलुषं वृजिनैनोऽघमंहोदुरितदुष्कृतम् ॥ १३१ स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः । मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसंमदाः ॥ १३२ स्यादानन्दथुरानन्दः शर्मसातसुखानि च । श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ १३३ भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् । शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥१३४ मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ १३५ दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः । हेतुर्ना कारणं बीजं निदानं वादिकारणम् ॥ १३६ क्षेत्रज्ञ आत्मा पुरुषः प्रधान प्रकृतिः स्त्रियाम् । विशेष: कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः१३७ जनुर्जननजन्मानि जनिरुत्पत्तिरुङ्गवः । प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ १३८ जातिर्जातं च सामान्य व्यक्तिस्तु पृथगात्मता | चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः॥१३९
___ इति कालवर्गः ॥ ४॥ बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः । प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः ॥ १४० धीर्धारणावती मेधा संकल्पः कर्म मानसम। चित्ताभांगो मनस्कारश्चर्चा संख्या विचारणा ॥१४१ अध्याहारस्तर्क हो विचिकित्सा तु संशयः । संदेह द्वापरौ चाथ समौ निर्णयनिश्चयौ ॥ १४२ मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम् । समौ सिद्धान्तराद्धान्तौ भ्रान्तिमिथ्यामतिभ्रमः१४३ मंविदागृ: प्रतिज्ञानं नियमाश्रवसंश्रवाः । अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ।।
१४४ मोक्षे धीझनमन्यत्र विज्ञानं शिल्पशास्त्रयोः । मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ १४५ मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम् । रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ १४६ गोचरा इन्द्रियाश्चि हृषीकं विषयीन्द्रियम् । कर्मेन्द्रियं तु पाय्यादि मनोनेत्रादि धीन्द्रियम्।।१४७ तुर्वरस्तु कषायोऽस्त्री मधुरो लवणः कटुः । तितोऽम्बलश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥१४८ विमर्दोत्थे पग्मिलो गन्धे जनमनोहरे । आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात् ॥ १४९ समाकर्षी तु निहारी सुरभिर्माणतर्पणः । इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः ॥ १५० पूतिगन्धिस्तु 'दुर्गन्धो विनं स्यादामगन्धि यत् । शुक्लशुभ्र शुचिश्वेतविशदश्येत पाण्डराः ॥ १५१
१ 'ज्येष्ठः'. २ 'अपाढे'. ३ अदन्तः. ४ 'एनः सान्तम्. ५ तालव्यादिरपि. ६ रज-तमौ' अदन्तावपि. ७ 'जन्मोऽदन्तोऽपि' इत्युणादौ. ८ एतदरे 'अवधानं समाधानं प्रणिधानं तथैव च' इति प्रक्षिप्तम. ९ एतदने 'विमर्शो भावमा चैव वासना च निगद्यते' इति प्रक्षिप्तम, १० 'तूवरः', 'कुवरः . ११ 'व-ल-संयोगवान्' इति मुकुटः, १२ इन्नन्तोऽपि.
For Private and Personal Use Only