________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । धपो वृक्षात्कृत्रिमाज रुष्कः मिल्हपिण्डकौ । पायमस्तु वृक्षधूपः श्रीवास: मग्लद्रवः॥ ६४८ म्यानात्स्थानान्तरं गच्छन्धूपो गन्धपिशाचिका । स्थासकन्तु हस्तबिम्बमलंकारस्तु भूषणम् ॥६४९ परिष्काराभरणे च चूडामणिः शिरोमणिः । नायकस्तरलो हागन्तर्मणिमुकुटं पुनः ॥ ६५० मौलि: किरीटकोटीग्मुष्णीपं पुष्पदाम तु । मूनि माल्यं माला स्रक्वगर्भकः केशमध्यगम् ॥ ६५१ प्रभ्रष्टकं शिग्वालम्बि पुगेन्यस्तं लैंलामकम् । तिर्यग्वक्षसि वैकक्षं प्रालम्बमृजुलम्बि यत् ॥ ६५२ मंदर्भो रचना गुम्फ: सन्धनं ग्रन्थनं समाः । तिलके तमालपत्रचिंत्रपुण्ड्रविशेषकाः ॥ ६५३ आपीडशेवगेत्तंसाः वर्तमाः शिरसः सजि । उत्तरौ कर्णपूरेऽपि पत्रलेखा तु पंत्रतः॥ ६५४ भङ्गिवल्लीलताङ्गुल्यः पत्रपाश्या ललाटिका । वालपाश्या पारितथ्याकर्णिका कर्णभूषणम् ॥ ६५५ ताडस्तु ताडपत्रं कुण्टलं कर्णवेष्टकः । उत्क्षिप्तिका तु कर्णान्दुर्वालीका कर्णपृष्ठगा ॥ ६५६ प्रैवेयकं कण्टभूषा लम्बमाना ललम्बिका । प्रालम्विका कृता हेनोरःसूत्रिका तु मौक्तिकैः ॥ ६५७ हागे मुक्तातःप्रालम्बम्रकलापावलीलता । देवच्छन्दः शतं साष्टं विन्द्रच्छन्दःसहस्रकम् ॥ ६५८ तदर्धविजयच्छन्दो हारस्त्वष्टोत्तरं शतम् । अर्धे रश्मिकलापोऽस्य द्वादश वर्धमाणवः ॥ ६५९ द्विादशार्धगुच्छः म्यात्पञ्च हारफलं लताः । अर्धहारश्चतुःषष्टिर्गुच्छमाणवमन्दराः ॥ अपि गोस्तनगोपुच्छावर्षमय यथोत्तरम् । इति हारायष्टिभेदादेकावल्येकयष्टिका ॥ कण्टिकाप्यथ नक्षत्रमाला तत्संख्यमौक्तिकैः । केयूरमङ्गदं वाहुभूषाथ करभूषणम् ॥ ६६२ कटको वलयं पारिहार्यावापौ तु कङ्कणम् । हस्तसूत्रं प्रतिसर ऊर्मिका बङ्गुलीयकम् ॥ ६६३ माक्षराङ्गलिमुद्रा सा कटिसूत्रं तु मेखला । कलापो रशना सा रसनं काञ्ची च सप्तकी ॥ ६६४ मा शृङ्खलं पुंस्कटीस्था किंकिणी क्षुद्रघण्टिका । नूपुरं तु तुलाकोटिः पादत: कटकाङ्गदे ॥ ६६५ मञ्जीरं हंसकं शिजिन्यंशुकं वस्त्रमम्बरम् । सिचयो वसनं चीराच्छादौ सिक्चेलवाससी ॥ ६६६ पटः प्रोतोऽश्चलोऽस्यान्तो वर्तिर्वस्तिश्च तद्दशाः । पत्रोर्ण धौतकौशेयमुष्णीषो मूर्धवेष्टनम् ॥ ६६७ नत्स्यादुद्गमनीयं यद्वौनयोर्वस्त्रयोर्युगम् । त्वक्फलकृमिरोमभ्यः संभवत्वाच्चतुर्विधम् ॥ ६६८ सौमकासकौशेयराववादिविभेदतः । क्षौमं दुकूलं दुगूलं स्यात्कार्पासं तु बादरम् ॥ ६६९ कौशेयं कृमिकोशोत्यं गवं मृगरोमजम । कम्बलः पुनरुर्णायुराविकौरभ्ररल्लकाः ॥ नवं वासोऽनाहतं स्यात्तत्रकं निष्प्रवाणि च । प्रच्छादनं प्रावरणं संव्यानं चोत्तरीयकम् ॥ ६७१ वैकक्षे प्रावागेत्तरासङ्गो वृहतिकापि च । वराशिः स्थूलशाट: स्यात्परिधानं वधोंशुकम् ॥ ६७२ अन्तरीयं निवसनमुपसंव्यानमित्यपि । तदन्थिरुञ्चयो नीवीवरख्योरुकांशुकम् ॥ ६७३ चण्डातकं चलनकं चलनी वितरस्त्रियाः । चोलः कक्षुलिका कूर्पासकोङ्गिका च कञ्चके ॥ ६७४ शाटी चोट्यथ नीशारो हिमवातापहांशुके । कच्छा कच्छाटिका कक्षा परिधानापराञ्चले ॥ ६७५ कक्षापटस्तु कौपीनं समौ नक्तककर्पटौ । निचोलः प्रच्छदपटो निचुलश्चोत्तरच्छदे ॥ ६७६ उत्सवेषु सुहृद्भिर्यदलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ॥ ६७७ तत्तु म्यादाप्रपदीनं व्याप्नोस्याप्रपदं हि यत् । चीवरं भिक्षुसंघाटी जीर्णवस्त्रं पटञ्चरम् ॥ ६७८
१. तेन वृक्षधूपः, कृत्रिमधूपः. २. यावनोऽपि. ३. चूडारत्नशिरोरत्ने अपि. ४. ललाम नान्तमदन्तं च. ५. चित्रकमपि. ६. उत्तंसावतंसी. ७. तेनत्पत्रभङ्गिः, पत्रवल्लिः, पत्राङ्गलिः; एवं पत्रवल्लरी-पत्रमञ्जरीत्यादयोऽपि. ८. मुक्ताशब्दात्परं प्रालम्बादिलतान्ताः. ९. परिहार्यमपि. १०. कङ्कणीत्येके. ११, पादकटकम्, पादाङ्गदम्.
For Private and Personal Use Only