________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । कंधग धमनिर्जीवा शिरोधिश्च शिरोधरा । सा त्रिरेखा कम्युग्रीवावटुर्वाटा कृकाटिका ॥ ५८६ कृकस्तु कंधगमध्यं कृकपाची तु वीतनौ । ग्रीवाधमन्यौ प्राग्नीले पश्चान्मन्ये कलम्बिके ॥ ५८७ गलो निगरणः कण्ठः काकलकस्तु तन्मणिः । अंसो भुजशिरः स्कन्धो जत्रु संधिरुरोंऽसगः ॥५८८ भुजो बाहुः प्रवेष्टो दोर्बाहाथ भुजकोटरः । दोर्मूलं खण्डिकः कक्षा पार्श्व स्यादेतयोरधः ॥ ५८९ कफोणिस्तु भुजामध्यं कफणि: कूपरश्च सः । अधस्तस्या मणिबन्धात्प्रकोष्टः स्यात्कलाचिका ।। ५९० प्रगण्डः कूपरासान्तः पञ्चशाखः शयःशमः । हस्तः पाणिः करस्यादौ मणिबन्धो मणिश्च सः ॥ ५९? करभोऽस्मादाकनिष्टं करशाखाङ्गुली समे । अङ्गुरिश्चाङ्गुलोऽङ्गुष्टस्तर्जनी तु प्रदेशिनी ॥ ५९२ ज्येष्टा तु मध्यमा मध्या सावित्री स्यादनामिका । कनीनिका तु कनिष्ठावहस्तो हस्तपृष्टतः ।। ५९३ कामाशो महाराज: करजो नखरो नखः । करशूकोभुजाकण्टः पुनर्भवपुनर्नवौ ॥ ५९४ प्रदेशिन्यादिभिः सार्धमङ्गुष्ठं वितते सति । प्रादेशतालगोकर्णवितस्तयो यथाक्रमम् ॥ ५९५ प्रसारिताङ्गुलौ पाणौ चपेटः प्रतलस्तलः । प्रहस्तस्तालिकस्तालः सिंहतालस्तु तौ युतौ ॥ ५९६ संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुस्तुर्मुचुट्यपि । संग्राहश्वार्धमुष्टिः स्यात्खटकः कुन्जितः पुनः ॥ ५९७ पाणिः प्रसृतः प्रसूतिस्तौ युताव अलि: पुनः । प्रसृते तु जलाधारे गण्डूषश्शुलुकश्चलुः ॥ ५९८ हस्तः प्रामाणिको मध्येमध्यमाङ्गुलिकृर्परम् । बद्धमुष्टिरसौ रनिररनिनिष्कनिष्टिकः।। ५९९ व्यामव्यायामन्यग्रोधास्तिर्यग्बाह प्रसारितौ । ऊर्वीकृतभुजापाणिनरमानं तु पौरुषम् ॥ ६०० दन्नद्वयसमात्रास्तु जान्वादेस्तत्तदुन्मिते । रीढकः पृष्टवंशः स्यात्पृष्ठं तु चरमं तनोः ।। ६०१ पूर्वभाग उपस्थोऽङ्कः क्रोड उत्सङ्ग इत्यपि । कोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् ॥ ६०२ स्तनान्तरं हृवृदयं स्तनौ कुचौ पयोधरौ । उरोजौ च चूचकं तु स्तनान्तशिखामुखाः॥ ६०३ तुन्दं तुन्दिगर्भकुक्षी पिचण्डो जठगेदरे । कालखण्डं कालखझं कालेयं कालकं यकृत् ॥ ६०४ दक्षिणे तिलकं क्लोम वामे तु रक्तफेनजः । पुष्पस: स्थादथ प्लीहा गुल्मोऽत्रं तु पुरीतति ॥ ६०५ रोमावली रोमलता नाभिः स्यात्तुन्दकृपिका । नाभेरथो मृत्रपुटं वस्तिमूत्राशयोऽपि च ॥ ६०६ मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः । श्रोणिः कलत्रं कटीरंकाञ्चीपदं ककुद्मती ॥ ६०७ नितम्बारोही स्वीकट्याः पश्चाज्जधनमश्रतः । त्रिकं वंशाधस्तत्पार्श्वकपको तु कुकुन्दरे ॥ ६०८ पतौ स्फिजौ कटिप्रोथौ वराङ्गं तु च्युतियुलि: । भगोऽपत्यपथो योनिः स्मगन्मन्दिरकृपिके ॥ ६०९ स्त्रीचिह्नमथ पुंश्चिह्न मेहनं शेपशेपसी । शिश्नं मेढ़ः कामलता लिङ्गं च द्वयमप्यदः ॥ ६१० गुह्यप्रजननोपस्था गुह्यमध्यं गुलो मणिः । सीवनी तदधःसूत्रं स्याँदण्डं पेलमण्डकः ॥ ६११ मुष्कोऽण्डकोषो वृषणोऽपानं पायुर्मुदं च्युतिः । अधोमर्म शकृहारं त्रिबलीकवुली अपि ॥ ६१२ विटपं तु महावीज्यमन्तरा मुष्कवङ्गणम । ऊरुसंधिर्वणः स्यात्सक्भ्यूरुस्तस्य पर्व तु ॥ ६१३ जानुनलकीलोऽष्टीवान्पश्चाद्भागोऽस्य मन्दिरः । कपोली खग्रिमो जङ्घा प्रसूता नलकिन्यपि ॥६१४ प्रतिजङ्घा त्वग्रजङ्घा पिण्डिका तु पिचण्डिका । गुल्फस्तु चरणग्रन्थिqटिको वुण्टको घुटः ॥ ६१५ चरणः क्रमणः पादः पदंहिश्चलनः क्रमः । पादमूलं गोहिरं स्यात्पाणिस्तु घुटयोरधः ॥ ६१६ पादाग्रं प्रपदं सिप त्वङ्गुष्टाङ्गुलिमध्यतः । कूच क्षिप्रस्योपयहिस्कन्धः कृर्चशिरः समे ॥ ६१७ ___१. कुर्परोऽपि. २. संहताल इत्यपि. ३. चलुकोऽपि. ४. यौगिकत्वादुरसिजवक्षोजादयः. ५. स्तनशब्दस्य वृ. न्तादिभिरन्वयः. ६. तेन स्मरमन्दिरं, स्मरकापका. ७. आण्डोऽपि. ८. पेलकोऽपि. ९, अभिरपि.
For Private and Personal Use Only