________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः ।
१८
त्रिनेत्रपक्षे सप्तपलाशादिषु योजयेत् । गुणशब्दो विरोध्यर्थं नजादिरितरोत्तरः । अभिधत्ते यथा कृष्णः स्यादसितः सितेतरः । वार्ध्यादिषु पदे पूर्वे वाडवाग्न्यादिषूत्तरे ॥ द्वयेऽपि भूभृदाद्येषु पर्यायपरिवर्तनम् । एवं परावृत्तिसहा योगाः स्युरिति यौगिकाः ॥ मिश्राः पुनः परावृत्त्यसहा गीर्वाणसंनिभाः । प्रवक्ष्यन्तेऽत्र लिंङ्गं तु ज्ञेयं लिङ्गानुशासनात् ॥ १९ देवाधिदेवाः प्रथमे काण्डे देवा द्वितीयके । नरस्तृतीये तिर्यञ्चस्तुर्य एकेन्द्रियादयः ॥ एकेन्द्रियाः पृथिव्यम्बुतेजोत्रायुमहीरुहः | कृमिपीलकलूताद्याः स्युर्द्वित्रिचतुरिन्द्रियाः || पञ्चेन्द्रियाश्चेभकेकिमत्स्याद्याः स्थलखाम्बुगाः । पञ्चेन्द्रिया एव देवा नरा नैरयिका अपि ॥ नारकाः पथमे साङ्गाः षष्ठे साधारणाः स्फुटम् । प्रस्तोष्यन्तेऽव्ययाचात्र वन्तायादी न पूर्वगौ ॥ २३
२०
२१
२२
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१६
१.७
१. “ व्युत्पत्त्यन्तरमाह – गुणवाची शब्दो नत्रपूर्व इतरशब्दोत्तरश्र विरोधिनमर्थमभिधत्ते ॥ यथा -- असितः, सितेतरः, कृष्णः ॥ एवम् - अकृशः, कृशेतरश्च स्थूल इत्यादि ॥' इति विवृतिः २. "व्युत्पत्यन्तरमाह--- वार्ध्यादिषु शब्देषु पूर्वस्मिन्नेव पदे पर्यायस्य परिवर्तनं भवति ॥ यथा -- वाधिः, जलधिः, तोयधिः || आदिशब्दग्रहणात् जलदः, तोयदः, नीरदः इत्यादि ॥ वडवाम्यादिषु शब्देषु उत्तरस्मिन्नेव पदे पर्यायपरिवर्तनम् । यथा - वडवाभि:, वडवानलः, वडवावह्निः ॥ आदिशब्दात् सरोजम्, सरोरुहम्, इत्यादि ॥ भूभृदाद्येषु शब्देषु द्वयेऽपि पूर्वत्र उत्तरत्र व पदे पर्यायस्य परिवर्तनम् । यथा - भूभृत्, उर्वीभृत्, भूधरः, उर्वीधरः ॥ आद्यशब्दात् सुरपतिः, देवराजः, इत्यादयः ||" इति विवृतिः ३. " एवमिति पूर्वत्र उत्तरत्र उभयत्र च पदे परावृत्ति पर्यायपरिवर्तनं सहन्ते क्षमन्ते परावृत्तिसहा वादयः शब्दा योगाद् अन्वयाद् भवेयुः इति यौगिकाः ||" इति विवृति: ४. “ गीर्वाणादयः शब्दाः पूर्वत्र उत्तरत्र च पदे पर्यायपरावृत्तिमसहमाना मिश्रा योगयुक्ता रूढिमन्तश्च अत्राभिधानचिन्तामणौ नाममा - लायां प्रवक्ष्यन्ते || संनिभग्रहणाद् दशरथ- कृतान्त-प्रभृतयः ।। " इति विवृतिः ५. “लिङ्गमिति । पुंलिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं चास्मदुपज्ञलिङ्गानुशासनात् ज्ञेयं निर्णेतव्यम् । अत एवास्माभिरमरकोशा द्यभिधानमालास्विक लिङ्गनियो नोक्तः ॥ इह तु विनेयजनानुग्रहार्थं संदिग्धलिङ्गानां नानालिङ्गानां च शब्दानां लिङ्गनिर्णयो वक्ष्यते ॥” इति विवृतिः. ६. “इह हि 'भुक्तगतिः, देवगतिः, मनुष्यगतिः, तिर्यग्गतिः, नारकगतिः' इति जीवानां पञ्च गतयो भवन्ति । तद्भेदा जीवा अपि 'मुक्ताः, देवाः, मनुष्याः, तिर्यञ्चः, नारकाश्च' इति पञ्चधा भवन्ति । ततोऽभिधास्यमानरूढयौगिक मिश्रशब्दविभागमुक्त्वा प्रथमादिकाण्डेष्वभिधास्यमानमुक्तादिनामक्रमनिर्देशमाह--देवाधिदेवा अर्हन्तो वर्तमानातीतानागताः । तद्वाचकशब्दा अपि देवाधिदेवाः, वाच्यवाचकयोरभेदोपचारात् ॥ एवं वक्ष्यमाणदेवादिष्वपि योज्यम् || साङ्गा इति सर्वत्र संबध्यते ॥ ततः प्रथमे काण्डे गणधराद्यङ्गैः सह देवाधिदेवाः सर्वप्राधान्यात् ॥ द्वितीये काण्डे देवाः साङ्गाः ॥ तृतीये काण्डे मनुष्याः साङ्गाः ॥ चतुर्थे तिर्यञ्चः साङ्गाः । ते च एकेन्द्रियादयः । तत्र एकं स्पर्शनम् इन्द्रियं येषां ते एकेन्द्रियाः पृथ्वीकायादयः पञ्च । तत्र पृथ्वीकायोऽनेकविधः -- शुद्धपृथ्वीशकैरावालुकादिः । अप्कायो हिमादिः । तेजःकायोऽङ्गारादिः । वायुकाय उत्कलिकादि: । वनस्पतिकाय: शैवलादिः ॥ द्वे स्पर्शन-रसने, त्रीणि स्पर्शनरसनप्राणानि, चत्वारि तान्येव चक्षुः सहितानि इन्द्रियाणि येषां ते तथा ॥ ततो द्वीन्द्रियाः कृम्यादयः, चीन्द्रियाः पीलकादयः, चतुरिन्द्रिया लूतादयः ॥ पञ्च स्पर्शादीनि श्रोत्रसहितानि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः । ते च त्रिविधा: - स्थलचराः, खचराः, अम्बुचराश्च । तत्र स्थलचरा इमाद्याः, खचराः केकिप्रभृतयः, अम्बुचरा मत्स्याद्याः || देवा नरा नारका पञ्चेन्द्रिया एव । न तु तिर्यञ्च इव एकद्वित्रिचतुरिन्द्रिया अपि ॥ पञ्चमे काण्डे नारकाः साङ्गाः || पठे काण्डे साधारणाः सामान्यवाचिनः || अव्ययाश्च अत्रेति पठ एव काण्डे प्रस्तोष्यन्ते प्रक्रम्यन्त इति ॥” इति विश्रुतिः ७. “तुशब्दोऽन्ते यस्यासौ त्वन्तः, अथशब्द आदिर्यस्यासावथादिश्च शब्दः पूर्वे न गच्छति । अग्रिमेण संबध्यते' इत्यर्थः ॥ न्यायसिद्धं चैतत् । तुना पूर्वस्माद्विशेपद्योतनात् । अथशब्देन चार्थान्तरारम्भात् । यथा --- ' स्यादनन्तजिदनन्तः सुविधिस्तु पुष्पदन्तः' इति, 'मुक्तिमाँक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः' इति ॥ भ्रान्तिस्थानविपये चैतत्' इति ||" इति वितृतिः,