________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ देवाधिदेवकाण्डः ।
आश्रयात्सद्मपर्यायशयवासिसदादयः । वैध्याद्भिदृषिजिद्धातिध्रुनिपुध्वंसिशासनाः ॥ अप्यन्तकारिदमनदर्पच्छिन्मथनादयः । विवक्षितो हि संबन्ध एकतोऽपि पदात्ततः ।। प्राक्प्रदर्शितसंबन्धिशब्दा योज्या यथोचितम् । ईश्यते खलु वाह्यवे वृषस्य वृषवाहनः ॥ १२ स्वले पुनर्वृषपतिर्धार्यवे वृषलाञ्छनः । अंशोहर्यत्वेऽशुमाली स्वत्वेऽशुपतिरंशुमान ॥ १३ वध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुक्शिखी । चिरैयक्तैर्भवेव्यक्तेर्जातिशब्दोऽपि वाचकः ॥ १४ तथाह्यगस्तिपूता दिग्दक्षिणाशा निगद्यते । अयुग्विषमशब्दौ त्रिपञ्चसप्तादिवाचकौ ॥ गाभिप्रभृतयः तद्वतां वाह्यवतां वाहयितॄणां नाम आहुः ॥ यथा----वृषगामी, वृषयानः, वृषासनः, शंभुः ।। तस्य हिं वृषो यानम् इति रूढिः ॥ आदिशब्दाद वृषवाहन इत्यादयोऽपि ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा'नरवाहन: कुबेरः' तथा 'नरगामी, नरयानः' इति ॥” इति विवृतिः. ९. "ज्ञातेयसंबन्धे यथा-शातिः स्वजनः, तद्वाचिनः शब्दात् परे स्वस्रादयस्तद्वतां ज्ञातेयवतां ज्ञातीनां नाम आहुः ॥ स्वस्रादीनां च ज्ञातिविशेषवाचित्वाज्ज्ञातिविशेषादेव प्रयोगो यथा-यमस्वसा यमुना । हिमवद्दहिता गौरी । चन्द्रात्मजो बुधः । गदाग्रज इन्द्रावरजश्च विएणुः । यमादयो हि यमुनादीनां भ्रात्रादिज्ञातय इति रूढिः ॥ आदिशब्दात्सोदरादयो गृह्यन्ते ॥ यथा-कालिन्दीसोदरो यमः ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा 'यमुना यमस्वसा', 'तथा शनिस्वसापि ॥” इति विवृतिः.
१. "आश्रयाश्रयिसंबन्धे यथा--आश्रयो निवास: तद्वाचिनः शब्दात् परे सद्मपर्यायाः शयवासिसदादयश्च तद्वताम् आश्रयवताम् आश्रितानां नाम आहुः । यथा--द्युसमानः, द्युसदनाः, दिवौकसः । दिवशब्दो वृत्तावकारान्तोऽप्यस्तीति । द्युवसतयः, दिवाश्रयाः, द्युशयाः, युवासिनः, युसदः, देवाः ॥ द्यौः स्वर्गः, स च तेपामाश्रयः इति रूढिः ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा ग्रुसद्मानो देवाः, तथा भूमिसमानो मनुष्याः इति ॥” इति विवृतिः. २. "वध्यवधकभावसंबन्धे यथा-वथ्यो घात्यः तद्वाचिनः शब्दात् परे भिदादयः अन्तकार्यादयोऽपि तद्वतां वधकानां नाम आहुः । यथा-पुरभित् , पुरद्वेषी, पुरजित्, पुरघाती, पुरध्रुक्, पुरारिः, पुरध्वंसी, पुरशासनः, पुरान्तकारी, पुरदमनः, पुरदर्पच्छित , पुरमथनः, शिवः ।। 'तस्य हि पुरो वध्याः' इति रूढिः ॥ आदिशब्दात्--पुरदारी, पुरनिहन्ता, पुरकेतुः, पुरहा, पुरसूदनः, पुरान्तकः, पुरजयी, इति । वध्य इति वधाहमात्रेऽपि । तेन--कालियदमनः, कालियारिः, कालियशासनः, विष्णुः' इत्यादयोऽपि गृह्यन्ते ॥ 'कविरूदया' इत्येव । तेन कालियदमनादिवत् 'कालियघाती' इति न भवति ॥” इति विवृतिः. ३. "उक्ताः स्वस्वामित्वादयः संबन्धाः । ते च यथा भिन्नद्रव्याश्रयास्तथैकद्रव्याश्रया अपि भवन्ति इति दर्शयितुमाह-विवक्षानिवन्धनो हि संबन्धः, तत एकस्मादपि वृपादेः संबन्धिपदात् परे संबन्धान्तरनिबन्धना वाहनादयः शब्दा यथोचितं प्रयुज्यन्ते ॥” इति विवृतिः. ४, एतदेवाह-वाह्यवाहकभावसंबन्धे विवक्षायां यथा--'वृषवाहनो रुद्रः' इति भवति । तथा स्वस्वामिभावसंबन्धविवक्षायां 'वृषपतिः' ॥ धार्यधारकभावसंबन्धविवक्षायां च 'वृषलाञ्छनः' इत्यपि ॥ धार्यधारकसंबन्धविवक्षायां यथा-'अंशुमाली रविः' इति भवति । तथा-स्वस्वामिभावसंबन्धविवक्षायाम् 'अंशुपतिः, अंशुमान्' इत्यपि ॥ तथा-वध्यवधकभावसंबन्धे यथा---'अहिरिपुर्मयरः' । तथा--भोज्यभोजकभावसंबन्धे 'अहिभुक' इत्यपि भवति ॥" इति विवृतिः. ५. "संबन्धनिबन्धनां व्युत्पत्तिमुक्त्वा व्युत्पत्त्यन्तन्तरमाह---चिलैविशेषणैर्व्यक्तैनिःसंदेहैर्जात्यभिधायकोऽपि शब्दो व्यक्तेर्वाचको भवेत् । व्यक्ते मतां यातीत्यर्थः ॥ तथाहीत्यादिनोदाहरणमाह----अगस्तिना ऋषिविशेषेण पूता स्वस्थित्या पवित्रिता इति व्यक्तं चिह्नम् । तेन चिह्नितो 'दिक्' इति जातिशब्दो दक्षिणाशाया व्यक्तेरभिधायी भवति ॥ एवं 'सप्तर्षिपूता दिक् उत्तराशा,' 'अत्रे यनसमुत्थं ज्योतिश्चन्द्रः' इत्यादयोऽपि ॥” इति विवृतिः. ६. "व्युत्पत्त्यन्तरमाह-----त्रि-पञ्च-सप्तादिस्थाने अयुग्-विषम-शब्दौ त्रिनेत्रादिपदेषु योजनीयौ । यथा---त्रिनेत्रः, अयुग्नेत्रः, विषमनेत्रश्च शंभुः ॥ पञ्चेषुः, अयुगिपुः, विषमेषुश्च कामः । सप्तपलाशः, अयुक्पलाशः, विषमपलाशश्च सप्तपर्णः ॥ आदिशब्दात् नवशक्तिः, अयुक्शक्तिः, विषमशक्तिश्च शंभुः ॥ एवं व्यक्ष-पञ्चबाण-सप्तच्छदादिष्वपि ॥” इति विवृतिः.
For Private and Personal Use Only