________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
o 5 w gvo
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । स्वात्पालधनभुग्नेतृपतिमत्वर्थकादयः । भूपालो भूधनो भूभुग्भूनेता भूपतिस्तथा ॥ भूमाँश्चेति कविरूदया ज्ञेयोदाहरणावली । जैन्यात्कृकर्तृमृट्स्रष्टविधातृकरसूसमाः ॥ जनकाद्योनिजरुहजन्मभसूत्यणादयः । धार्याद्भजास्त्रपाण्यङ्कमौलिभूषणभृन्निभाः॥ शालिशेखरमत्वर्थमालिभर्तृधरा अपि । भोज्यागुगन्धोव्रतलिट्पायिपाशाशनादयः ।। पत्युः कान्ताप्रियतमावधूप्रणयिनीनिभाः । कलत्राद्वररमणप्रणयीशप्रियादयः ।। संख्युः सखिसमा वाह्याद्गामियानासनादयः । ज्ञातेः स्वसृदुहित्रात्मजाग्रजावरजादयः ।
१. "क्रमेणोदाहरणान्याह-इतिशब्दः प्रकारार्थः । तेन भूपादयोऽपि ॥ कवीनां रूढिः परम्परा तया न तु कविरूढ्यतिक्रमेण । यथा 'कपाली' इत्यादौ सत्यपि स्वस्वामिभावसंबन्धे 'कपाली' इति मत्वर्थीयान्त एव भवति, न तु 'कपालपालः, कपालधनः, कपालभुक्, कपालनेता, कपालपतिः' इत्यादि ॥” इति विवृतिः. २. “जन्यजनकभावसंबन्धे यथा----जन्यात्कार्यात्परे कृदादयस्तद्वतां जनकानां कारणानां नाम आहुः । यथा-विश्वकृत्, विश्वकर्ता, विश्वसृट् , विश्वस्रष्टा, विश्वविधाता, विश्वकरः, विश्वसू: ब्रह्मा । तस्य हि विश्वं जन्यमिति रूढिः ॥ सम आद्यर्थः । तेन-'विश्वकारकः, विश्वजनकः' इत्याद्यपि ॥ कविरूदया इत्येव । नहि यथा चित्रकृदुच्यते तथा चित्रसूः इति ॥" इति विवृतिः. ३. "तथा जनकात् परे योन्यादयः शब्दास्तद्वतां कारणवतां कार्याणां नाम आहुः ।। यथा-आत्मयोनिः, आत्मजः, आत्मरुहः, आत्मजन्मा, आत्मभूः, आत्मसूतिः, ब्रह्मा ।। तस्य ह्यात्मा कारणमिति रूढिः ॥ वक्ष्यमाणस्यादिशब्दस्याभिसंबन्धात् संभवादयोऽपि गृह्यन्ते ॥ अणादयस्तु-भृगोरपत्यं भार्गवः । दितेरपत्यं दैत्यः । वात्स्यस्यापत्यं वात्स्यायनः । अत्रापि हि भार्गवादीनां भृग्वादयो हि जनका इति रूढिः ॥ 'कविरूढ्या' इत्येव । नदि-आत्मयोनिवत् 'आत्मजनकः, आत्मकारकः' इति भवति ॥” इति विवृतिः. ४. "धार्यधारकसंबन्धे यथा-~-धार्यवाचकात् परे ध्वजादयो धरान्ता धारकस्य नाम आहुः ॥ यथा--वृषध्वजः, शूलास्त्रः, पिनाकपाणिः, वृषाङ्कः, चन्द्रमौलि:, शशिभूषणः, शूलभृत् । निभग्रहणात्तत्सदृशा वृषकेतन-शूलायुध-वृषलक्ष्म-चन्द्रशिरस्-चन्द्राभरणादयो गृह्यन्ते । तथा—पिनाकशाली, शशिशेखरः, शूली, पिनाकमाली । पिनाकं मलते धारयतीति कृत्वा पिनाकभर्ता, गङ्गाधरः ॥ 'कविरूढ्या' इत्येव । तेन सत्यपि धार्यधारकसंबन्धे न सर्वेभ्यो धार्येभ्यो ध्वजाद्यर्थाः शब्दाः प्रयोज्याः । नहि भवति वृषध्वजवत् शूलध्वजः, शूलास्त्रवत् चन्द्रास्त्रः, पिनाकपाणिवत् अहिपाणिः, वृपाङ्कवत् चन्द्राङ्कः, चन्द्रमौलिवत् गङ्गामौलिः, शशिभूषणवत् शूलभूषणः, शूलशालिवत् चन्द्रशाली, चन्द्रशेखरवत् गङ्गाशेखरः, शूलिवत् शूलवान् , पिनाकमालिवत् सर्पमाली, पिनाकभर्तृवत् चन्द्रभर्ता, गङ्गाधरवत् चन्द्रधरः, इति ॥” इति विवृतिः. ५. "भोज्यभोजकभावसंबन्धे यथा--भोज्यं भक्ष्यं तद्वाचिनः शब्दात् परे भु. गादयः शब्दास्तद्वतां भोज्यवतां भोक्तृणां नाम आहुः । यथा-अमृतभुजः, अमृतान्धसः, अमृतव्रताः, अमृतलिहः, अमृतपायिनः, अमृतपाः, अमृताशाः, अमृताशनाः, देवाः ॥ तेषां ह्यमृतं भोज्यम्' इति रूढिः ।। आदिशब्दस्तत्समानार्थभोजनादिशब्दपरिग्रहाय ।। 'कविरूब्या' इत्येव । नहि यथा अमृतभुजः, तथा अमृतवल्मा इति भवति ॥” इति विवृतिः. ६. "पतिकलत्रभावसंबन्धे यथा---पतिर्वरयिता तद्वाचकाच्छब्दात् कान्तादिसदृशाः शब्दाः तद्वतीनां पतिमतीनां भार्याणां नाम आहुः ॥ यथा-शिवकान्ता, शिवप्रियतमा, शिववधूः, शिवप्रणयिनी, गौरी ॥ तस्या हि शिवः पतिः इति रूढिः ॥ निभग्रहणाद्रमणी-वल्लभा-प्रिया-प्रभृतयो गृह्यन्ते ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा शिवकान्ता तथा शिवपरिग्रहः इति ॥ तथा-कलत्रवाचिनः शब्दात्परे वरादयः शब्दास्तद्वतां कलत्रवतां वरयितृणां नाम आहुः ॥ यथा-गौरीवरः, गौरीरमणः, गौरीप्रणयी, गौरीशः, गौरीप्रियः, शिवः ॥ 'तस्य हि गौरी कलत्रम्' इति रूढिः ॥ आदिशब्दात् तत्समानार्थाः पत्यादयो गृह्यन्ते ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा गौरीवरः शिवः, तथा गङ्गावरः' इति ॥” इति विवृतिः. ७. "सख्युः संबन्धे यथा-सखिवाचकाच्छब्दात् परे सखिसमानार्थाः तद्वतां सख्यवतां नाम आहुः ।। यथा-श्रीकण्ठस्य सखा श्रीकण्ठसखः कुबेरः। मधुसखः कामः । समग्रहणात् सुहृदादयो गृह्यन्ते ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा-श्रीकण्ठसखो धनदः, तथाधनदसखः श्रीकण्ठ इति ॥" इति विवृतिः. ८. "वाह्यवाहकभावसंबन्धे यथा-वाह्यात वाह्यवाचिनः शब्दात् परे
For Private and Personal Use Only