________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
11 T: 11
अभिधानसंग्रहः ।
(६) श्री हेमचन्द्राचार्यविरचितः अभिधानचिन्तामणिः ।
Acharya Shri Kailassagarsuri Gyanmandir
१
प्रणिपत्यार्हतः सिद्धसाङ्गशब्दानुशासनः । रूढयौगिकमिश्राणां नाम्नां मालां तनोम्यहम् ॥ व्युत्पत्तिरहिताः शब्दा रूढा आखण्डलादयः । योगोऽन्वयः स तु गुणक्रियासंबन्धसंभवः ॥ २ गुणतो नीलकण्ठायाः क्रियातः स्रष्टृसंनिभाः । वैस्वामित्वादिसंबन्धस्तत्राहुर्नाम तद्वताम् ॥
१. “प्रणिपत्यार्हत इति मङ्गलार्थम् । मङ्गलं चाविघ्नेन शास्त्रस्य समास्यर्थम् । सिद्धं प्रतिष्ठां प्राप्तं साङ्गं शब्दानुशासनं यस्येति कर्तृविशेषणम् । अङ्गानि लिङ्गधातुपारायणादीनि । एतावता शब्दानुशासनेन सहास्या एककर्तृकत्वमाह । एककर्तृकत्वख्यापनं चान्योन्यसंवादात्प्रतीतिदाय पदर्शनार्थम् । शब्दानुशासनस्य कीर्तनं तदधीनः सर्वविद्यानां प्रकर्म इति प्रदर्शनार्थम् || यदाह - 'वक्तृत्वं च कवित्वं च विद्वत्तायाः फलं विदुः । शब्दज्ञानादृते तन्न द्वयमप्युपपद्यते ॥ रूढादीनां शब्दानां नाम्नां मालामभिधानचिन्तामणिनाम्नी तनोमि । अहमिति कर्तृनिर्देश: ॥" इति विवृतिः २. “तत्र रूढाञ्शब्दान्व्याचष्टे - प्रकृतिप्रत्ययविभागेनान्वर्थवर्जिता व्युत्पत्तिरहिताः । शब्दा इत्यनुवाद्यनिर्देश: । रूढा इति विधेयपदम् । आखण्डलादय इत्युदाहरणम् । नात्र प्रकृतिप्रत्ययविभागेन व्युत्पत्तिरस्ति । आदिशब्दान्मण्डपादयः ॥ यद्यपि ' नाम च धातुजम् -' इति शाकटायनमतेन रूढा अपि व्युत्पत्तिभाजः, तथापि वर्णानुपूर्वीज्ञानमात्रप्रयोजना तेषां व्युत्पत्तिः, न पुनरन्वर्थार्थप्रवृत्तौ कारणमिति रूढा अव्युत्पन्ना एव ॥ " इति विवृतिः. ३. “यौगिकाञ्शब्दान्व्याचष्टे - शब्दानां परस्परमर्थानुगमनमन्वयः स योगः । स पुनर्योगो गुणात्, क्रियायाः संबन्धाच्च भवति । गुणो नीलपीतादिः । क्रिया करोत्यादिका । संबन्धो वक्ष्यमाणः संभवो यस्य स तथा ॥ " इति विश्रुतिः. ४. “गुणक्रियासंभवयोगेन यौगिकानामुदाहरणम् - गुणतो गुणनिबन्धनो येषां योगस्ते शब्दा नीलकण्ठाद्याः । नीलः कण्ठोऽस्य इति गुणप्राधान्यान्नीलकण्ठः शंकरः । आदिशब्दात् शितिकण्ठः कालकण्ठ : इत्यादि ॥ संख्यापि गुण एव इति त्रिलोचनः । तेन – पञ्चवाणः पण्मुखः अष्टश्रवाः दशग्रीवः इत्यादि संगृहीतम् ॥ क्रियातः क्रियानिबन्धनो योगो येषां ते राष्ट्रप्रभृतयः । सृजति इति सर्जनप्राधान्यात्स्रष्टा ब्रह्मा । एवं धाता इत्यादयः ॥” इति विवृतिः ५. " संवन्धं व्याचष्टे – स्वम् आत्मीयम्, स्वामी यस्तत्र प्रभविष्णुः, तयोर्भावः स्वस्वामित्वम् । तदादिः संबन्ध: । आदिशब्दाज्जन्यजनकभावादिपरिग्रहः ॥” इति विवृतिः ६. " तत्र स्वस्वामिभावसंबन्धे पालादयः शब्दाः स्वात्परे नियोजिताः तद्वतां स्वामिनां नाम आहुः || मत्वर्थक इति । मतुस्तद्धितः । तस्यार्थोऽस्त्यर्थविशिष्टप्रकृत्यर्थेन सह देवदत्तादेः संबन्धः । तदाधारो वा 'तदस्यास्त्यस्मिन्निति मतुः ' इति मतुप्रत्ययविधानात् । मतोरर्थो यस्य स मत्वर्थकस्तद्धितो मतुना समानार्थ इत्यर्थः । स च इन्नणिकादिः । मत्वर्थाव्यभिचारान्मतुरपि । आदिशब्दात्पादयोऽपि ॥ तत्राहुर्नाम तद्वताम्' इति उत्तरेष्वप्यनुवर्तनीयम् ॥” इति विवृति:.
For Private and Personal Use Only