________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हमचन्द्रः ।
बोधयित्वा महाराजं देवलोकं जगाम यः । पश्चात्कुमारपालोऽयं शोकं गत्वा मुमूर्छ सः ॥
तनु धैर्यमवलम्ब्य धर्मध्यानं करोति ।'
इति हेमकुमारचरित्रकाव्ये हेमचन्द्राचार्याणां देवलोकगमनस्योक्तेश्च कुमारपाल राज्यसमय एवाचाहेमचन्द्रसमयः कुमारपालराजधान्येव भूमिमण्डलमित्यवागतम् । विशेषकथा तु प्रवन्धकोशप्रवन्धचिन्तामणिभ्यामवगन्तव्या ।
कुमारपालराज्यसमयस्तु
'ॐ नमः शिवाय |
ब्रह्मविया मुमुक्षुभिरभिध्यातस्य वद्धाक्षरैरिच्छाशक्तिमभिष्टमि जगतां पत्युः श्रुतीनां निधेः । या व्यापारितसंहृतः स्वभमये ब्रह्माण्डपिण्डैर्नवैः क्रीडन्ती मणिकन्दुकैरिव सदा स्वच्छन्द्रमाहादते || गीर्वाणवीतगर्व दनुजपरिभवात्प्रार्थितस्त्रायकार्थं वेधाः संध्यां नमस्यन्नपि निजचुल्लुके पुण्यगङ्गाम्बुपूर्ण । सद्यो वीरं चुल्लुक्याह्वयम सृजदिमं येन कीर्तिप्रवाहैः पूतं त्रैलोक्यमेतन्नियतमनुहरत्येव हेतोः फलं श्रीः ॥ वंशः कोऽपि ततो बभूव विविधाश्चयैकलीलास्पदं यस्माद्भुमिभृतोऽपि वीतगणिता (णना): प्रादुर्भवन्त्यन्वहम् । छायां यः प्रथितप्रतापमहती दूधे विपन्नोऽपि सन्यो जन्यावधि सर्वदापि जगतो विश्वस्य दत्ते फलम् ॥ वंशस्यास्य यशःप्रकाशनविधौ निर्मृत्यमुक्तामणिः क्षोणीपाल किरीटकल्पितपदः श्रीमूलराजोऽभवत् । यो मूलं कलिदावदग्धनिखिलन्यायडुमोत्पादने यो राजेव करेः प्रकामशिशिरैः प्रीतिं निनाय प्रजाः ॥ यश्चापोत्कटराजराज्यकमलां खच्छन्दवन्दीकृतां विद्वान्यवविप्रवन्दिमृतकव्यूहोपभोग्यां व्यधात् । यत्खङ्गाश्रयिणीं तदा श्रियमलं युद्धस्फुरद्विक्रमक्रीताः सर्वदिगन्तरक्षितिभुजां लक्ष्म्याश्चिरं भेजिरे || सूनुस्तस्य बभूव भूपतिलकचामुण्डराजाइयो यद्गन्धद्विपदानगन्धपवनाश्राणेन दूरादपि । विश्रश्यन्मद्गन्धभग्नकरिभिः श्रीसिन्धुराजस्तथा नष्टः क्षोणिपतेर्यथास्य यशसां गन्धोऽपि निर्णाशितः ॥ तस्माद्वल्लभराज इत्यभिवया क्ष्मापालचूडामणिर्जज्ञे साहसकर्मनिर्मित चमत्कारः क्षमामण्डले । यत्कोपानलजृम्भितं पिशुनयत्येतत्प्रयाणश्रुतिक्षुभ्यन्मालयभूपचक्रविकसन्मालिन्यधूमोद्गमः ॥ श्रीमदुर्लभ राजनामनृपतिभ्रातास्य राज्यं दधे शृङ्गारेऽपि निषण्णश्रीः परवधूवर्गस्य यो दुर्लभः । यस्य क्रोधपरायणस्य किमपि भृवल्लरी भरा सद्यो दर्शयति स्म लाटवसुधाभङ्गस्वरूपं फलम् ||
मोऽपि द्वितां सदा प्रणयिनां भोग्यत्वमासेदिवान्क्षोणीभारमिदं (मं) बभार नृपतिः श्री भीमदेवो नृपः । धारापञ्चकसाधनैक चतुरेतद्वाजिभिः साधिता क्षिप्रं मालवचक्रवर्तिनगरी धारेति को विस्मयः || तस्माद्भूमिपतिर्वभूव वसुधा कर्णावतंसः स्फुरत्कीर्तिप्रीणितविश्वकर्णविवरः श्रीकर्णदेवाह्वयः । येन ज्या प्रथितस्वनं च्युतशरं धर्मं पुरस्कुर्वता न्यायज्ञेन न केवलं रिपुगणः कालोऽपि विद्धः कलिः || दृप्यन्मालवभूपबन्धनविधित्रस्ताखिलक्ष्मापतिर्भक्त्याकृष्टवितीर्णदर्शनशिवो मूर्तः प्रभावोदयः । सद्यः सिद्धरसान्रणीकृतजगद्गीतोपमा (तावदा) नस्थितिर्जज्ञे श्रीजयसिंह देवनृपतिः सिद्धादिराजस्ततः ॥
१. मूलराजराज्यम् - वि० सं० ९९३ - १०५३. २. चामुण्डराजराज्यम् - वि० सं० १०५३-१०६६ ३. दुर्लभराजराज्यम् - वि० सं० १०६६-१०७८. ४ गीमदेवराज्यम् - वि० सं० १०७८-११२० ५. कर्णदेवराज्यम् - वि० सं० ११२०-११९०६ समापन
११५-११
For Private and Personal Use Only