________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
अभिधानसंग्रहः-३ हारावली ।
पटलेऽपि कासमर्दो दिष्टं दैवेऽपि कीर्तितम् । दाडिमेऽपि च हिण्डीरं वंशो वेणौ कुलेऽपि च ॥
___ इति नानार्थे पादावधिः ॥ ५॥ काव्यदीनामनन्तत्वाच्छब्दानां तु विशेषतः । क कदा केन किं दृष्टमिति को वेदितुं क्षमः ।। २७३ अतः शब्दः क दृष्टोऽयमर्थतश्चापि कीदृशः । इति काव्यमलीकं स्यान्मात्सर्यमलिनात्मनाम् ॥ २७४ शब्दार्णव उत्पलिनी संसारावर्त इत्यपि । कोषा वाचस्पतिव्याडिविक्रमादित्यनिर्मिताः ॥ २७५ आदाय सारमेतेषामन्येषां च विशेषतः । हारावली निबद्धेयं मया द्वादशवत्सरैः ॥ २७६
उपास्य सर्वज्ञमनन्तमीशं भूत्वातिथिः श्रीधृतिसिंहवाचाम् । हारावली द्वादशमासमालैर्विनिर्मितेयं पुरुषोत्तमेन ॥ नानाकाव्यपुराणनाटककथाकोषेतिहासस्मृति
ज्योतिःशास्त्रगजाश्वमानवभिषकोषान्प्रयत्नादियम् । दृष्ट्वान्यानि च शाब्दिकैः सह कृता हारावली यत्नतः ___ कर्तव्योऽत्र न संशयः सुमनसः शब्दार्थलिङ्गेष्वपि ॥ सुधिया जनमेजयेन यत्नातिसिंहेन समं निरूपितेयम् । विदितो बहुदृश्वभिः कवीन्द्र वि कोषानुमतः श्रमो मदीयः ॥ हित्वा महाशाब्दिकताभिमानं मात्सर्यमन्यत्र मुहुर्निधाय । हारावली यः प्रकरोति कण्ठे विदग्धगोष्ठीषु परं स भाति ।। इति श्रीमहामहोपाध्यायपुरुषोत्तमदेवप्रणीता हारावली समाप्ता।
२७८
२८०
१ 'वाच्य' क. २ 'सुवर्णवेषं क. ३ 'दिकम्' ख-ग. ४ 'वतः क. ५ इदं श्लोकद्वयं क-पुस्तके नास्ति, ६ 'महामहोपाध्याय क-पुस्तके नास्ति. ७ 'पर्यवसिता' क,
For Private and Personal Use Only