SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरसिंहः । मलये भागिभिश्चन्दनस्थैः । अन्तर्धान्ताः प्रतिकिसलयं पुष्पितानां लतानां संप्राप्तास्ते विरहशिखिनी गन्धवाहाः सहायाः ॥ सोऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं स्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिगुणः कामुके। एतत्साधन उत्सहेत स जगजेतुं कथं मन्मथस्तस्यामोघममूर्भवन्ति नहि चेदत्रं कुरङ्गीदृशः ॥' एतत्पद्यपञ्चकमपि तत्रैवामरसिंहनाम्ना समुद्धृतमस्ति । तेन किमपि काव्यमप्यमरसिंहेन प्रणीतं स्यात् । अथवा काव्यकर्ता कश्चिदन्योऽप्यमरसिंहः स्यादित्यपि भाति । काव्यकल्पलता-बालभरतयोः कर्ता त्वमरचन्द्रः श्वेताम्बरजैनोऽत्यर्वाचीनश्चेत्यपि ज्ञेयम् । अस्माभिस्त्वत्र क्षीरस्वामि-मुकुट-भानुदीक्षित-वेदान्तिमहादेवकृतटीकाभ्योऽमरकोषोद्घाटन-पदचन्द्रिका-व्याख्यासुधा-बुधमनोहराभ्य एव पाठान्तराणि धृतानि सन्तीति ज्ञेयम् ॥ For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy