________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः ।
२१ मण्डभेदे पलपिण्डे सुपक्ककणिकेऽपि च । भूस्पृग्वैश्ये मानवे च राशिमेषादिपुञ्जयोः ॥ ५५६ वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः । वशा नार्यां वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि ॥ ५५७ वंशः संधेऽन्वये वेणौ पृष्टाद्यवयवेऽपि च । वेशो वेश्यागृहे गेहे नेपथ्ये च शशः पशौ ॥ ५५८ बोले लोधे नृभेदे च स्पशो हेरिकयुद्धयोः। स्पर्शी वर्गाक्षरे दाने स्पर्शने स्पर्शके रुजि ॥ ५५९ अक्षो रथस्यावयवे व्यवहारे विभीतके । पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ ॥ ५६० अक्षं सौवर्चले तुत्थे हृषीके स्यादुषा निशि । बाणपुत्र्यां च ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः॥ ५६१ महीधरविशेषे च शोणके कृतवेधने। ऋषिदे मुनौ कर्षः कर्षणे मानभिद्यपि॥ ५६२ कक्षो वीरुधिदोर्मूले कच्छे शुष्कवने तृणे । पापे कक्षा विभरज्जौ काश्यां गेहप्रकोष्टके ॥ ५६३ भित्तौ साम्ये रथभागेऽन्तरीयपश्चिमाञ्चले । उगाहण्यां च कर्षस्तु तुषाग्नौ कृषिकुल्ययोः।। ५६४ घोषः कांस्ये खेने गोपघोषकाभीरपल्लिषु । घोषा तु शतपुष्पायां चोक्षः सुन्दरगीतयोः ॥ ५६५ शुचौ झषस्तु मकरे वने मीने झषा पुनः । नागबलायां तुषस्तु धान्यत्वचि विभीतके।। ५६६ दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ । द्रुमे दक्षा तु मेदिन्यां ध्वाङ्गः काके बकेऽर्थिनि ॥ ५६७ गृहे ध्वानी तु ककोल्यां न्यक्षः काय॑निकृष्टयोः। जामदग्न्येऽपि पक्षस्तु मासार्धे गृहसाध्ययोः ॥ चुल्लीरन्ध्रे बले पार्श्वे वर्गे केशात्परश्चये । पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे।॥ ५६९ प्लक्षो द्वीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके प्रेक्षा धीरीक्षणं नृत्तं प्रैषौ प्रेषणपीडने ॥ ५७० पौषो मासप्रभेदे स्यात्पौषं तु महयुद्धयोः । भिक्षा सेवाप्रार्थनयोभृतौ भिक्षितवस्तुनि ॥ ५७१ माषो माने धान्यभेदे मूर्खे खग्दोषभिद्यपि । मिषं त्याजे स्पर्धने च मेषो राश्यन्तरे हुडौ॥५७२ मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृतौः। यक्षः श्रीदे गुह्यके च रक्षा रक्षणभस्मनोः ॥ ५७३ रूक्षोऽस्निग्धपरुषयोर्लक्षं व्याजशरव्ययोः । संख्यायामपि वर्षस्तु समाद्वीपांशवृष्टिषु ॥ ५७४ वर्षवरेऽपि वर्षास्तु प्रावृष्यथ विषं जले । क्ष्वेडे विषा खतिविषा वृषो गव्याखुधर्मयोः॥ ५७५ पुंगशिभेदयोः शृङ्गयां वासके शुक्रलेऽपि च । श्रेष्ठे स्यादुत्तरस्थश्चा वृषी तु व्रतिविष्ठरे।। ५७६ वृषा पुनः कपिकच्छां शुषिः शुषिरशोषयोः । शेषोऽनन्ते वधे सीरिण्युपयुक्तरेऽपि च ॥ ५७७ शेषा निर्माल्यदाने स्याच्छोषः शोषणयक्ष्मणोः । अचिर्मयूखशिखयोरदोऽत्र च परत्र च ॥ ५७८ आगः स्यादनोवदघे मन्तावाशीहितैषिणि । उरगस्य च दंष्ट्रायामुषः संध्याप्रभातयोः ॥ ५७९ उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः । अवष्टम्भे बले धातुतेजस्योकस्तु सद्मनि ॥ ५८० ओकास्त्वाश्रयमात्रे स्यात्कंसस्तैजसमानयोः । पानपात्रे दैत्यभेदे कासूः शक्त्यायुधे रुजि ।। ५८१ बुद्धौ विकलवाचि स्याद्गुत्सः स्तम्बगुलुञ्छयोः । हारभेदे प्रन्थिपणे गोसो बोलविभातयोः ॥ ५८२ चास इक्षुपक्षिभिदोश्छन्दः पद्येच्छयोः श्रुतौ । ज्यायान्वृद्ध प्रशस्ये च ज्योतिर्वह्निदिनेशयोः ५८३
१. 'गृहे' ख. २. 'हेरक' ख. ३. 'क्षतवेधने' ख. 'कृतवेधनः कृतच्छिद्रः' इति टीका. ४. 'ऋषि' ख-ग-घ. ५. 'खरे' ख. ६. 'आभीर' ख. ७. 'नागलतायां' ग-घ. ८. 'कंकोल्यां' ख; 'काकोल्यां' ग-घ. ९. 'यामदम्ये' ग-घ. १०. 'ग्रह' ख-ग-घ. ११. 'बुद्धयोः' ख. १२. स्पर्शभेदे' ख. १३. 'वर्षधरे' ख-ग-घ. १४. 'वृषीति ऋषि' ख. १५. 'चित्राकपिकच्छोः ' ख-ग-ध. १६. 'अंस: स्कन्धे विभागे स्यादसि: खड्ने नदीभिदि' इत्यधिकमितः प्राक् ख-ग-घ. १७. 'देनस्यव' ग-घ. 'एनोवदिति । आगःशब्द एनःशब्दश्चेत्यर्थः इति टीका. १८. 'स्योकं तु' ग-ध.
For Private and Personal Use Only