________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
__ अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । वने दर्वी फणातोर्वी स्याद्देवदारुणि । हरिद्राद्वितये चापि दिवं खे त्रिदिवे दिने॥ ५३० देवं हृषीके देवस्तु नृपतौ तोयदे सुरे। देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि,॥ ५३१ धवो धूर्ते नरे पयौ द्रुभेदेऽथ ध्रुवो वटे । वसुयोगभिदोराँतौ शङ्कावुत्तानपादजे ॥ ५३२ स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः।। ध्रुवा मूर्वाशालिपर्योः नुग्भेदे गीतभिद्यपि ॥ ५३३ नवो नव्ये स्तुतौ। नीवी स्त्रीकटीवस्त्रबन्धने । मूलद्रव्ये परिपणे प्लवः प्लक्षे ततौ कपौ ॥ ५३४ शब्दे कारण्डवे म्लेच्छजातौ भेलकमेकयोः । क्रमनिम्नमहीभागे कुलके जलवायसे ॥ ५३५ जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि । पक्कं परिणते नाशाभिमुखे पार्श्वमन्तिके ॥ ५३६ कक्षाधोवयवे वैक्रोपायपशुसमूहयोः। प्राचं दूरपथे प्रवे बन्धे पूर्व तु पूर्वजे ॥ ५३७ प्रागने द्रुतभेदे च भवः सत्ताप्तिजन्मसु । रुद्रे श्रेयसि संसारे भावोऽभिप्रायवस्तुनोः ॥ ५३८ स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु । चेष्टायोन्योqधे जन्तौ शृङ्गारादेश्व कारणे ॥ ५३९ शब्दप्रवृत्तिहेतौ च रेवा मन्मथयोषिति । नील्यां मेकलकन्यायां लवः कालभिदि छिदि ॥ ५४० विलासे रामजे लेशे लेटा पक्षिकुसुम्भयोः । लध्वी ह्रस्वविवक्षायां प्रभेदे स्यन्दनस्य च।।। ५४१ विश्वाः सुरेषु विश्वं तु शुण्ठ्यां भुवनकृत्स्नयोः । विश्वा विषायां शिवं तु मोक्षे क्षेमे सुखे जले॥ शिवो योगान्तरे वेदे गुग्गुलौ वालुके हरे । पुण्डरीके द्रुमे काले शिवा झाटामलोमयोः ॥५४३ फेरौ शम्यां पथ्याधात्र्योः शिविर्भूर्जे नृपान्तरे। शुल्ब ताने यज्ञकर्मण्याचारे जलसंनिधौ॥ ५४४ सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावात्मभावे बले प्राणेषु जन्तुषु॥ ५४५ सान्त्व सामनिदाक्षिप्ये घुवा मूर्वा खुवः त्रुचि । हवस्तु सप्ततन्तौ स्यानिदेशाद्वानयोरपि ॥ ५४६ अंशुः सूत्रादिसूक्ष्मांशे किरणे चन्द्रदीधितौ । आशा कुकुभि तृष्णायामाशुस्तु ब्रीहिशीघ्रयो ५४७ ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके। कोशस्तृणे रोगभेदे कीशः कपो दिगम्बरे ॥ ५४८ कुशो रामसुते दर्भे पापिष्ठे योक्रमत्तयोः । कुशी लोहविकारे स्यात्कुशा वला कुशं जले ॥ ५४९ केशः शिरसिजे पाशपाणौ ह्रीबेरदैत्ययोः।। क्लेशो राँगादौ दुःखे च कोशः कोष इवाण्डके ५५० कुमले चषके दिव्येऽर्थचये योनिशिम्बयोः । जातिकोषेऽसिपिधाने दर्शः सूर्येन्दुसंगमे ॥ ५५१ पक्षान्तेऽष्टौ दर्शने च दंशो वर्मणि मर्मणि । दोषे वनमक्षिकायां खण्डने भुजगक्षते।। ५५२ दशा वर्ताववस्थायां दशास्तु वसनाञ्चले । नाशः पलायने मृत्यौ परिध्वस्तावदर्शने ॥ ५५३ निशा हरिद्रायां रात्रौ पशुश्छागे मृगादिषु । प्रमथेऽपि च पाशस्तु मृगपक्ष्यादिबन्धने ॥ ५५४ कर्णान्ते क्षोभनार्थः स्यात्कचान्ते निकरार्थकः । छात्राद्यन्ते च निन्दार्थः पेशी मांस्यसिकोशयोः ।
१. 'तो' ग-घ. 'तारुहस्तः' इति टीका. २. 'भिदोः शंभौ' ख-ग-घ, ३. 'आति: शरारिः' इति टीका, ४. 'चक्रोपान्त' ग-घ. 'वक्रोऽनृजुरुपायः' इति टीका. ५. 'पशुसमूहयोः' ख. ६. 'प्रागिति दिग् देशः कालो वा । अग्रे प्रथमतोऽर्थे । श्रुतभेदे आगमविशेषे' इति टीका. ७. 'श्रुतिभेदे' ख-ग-घ. ८. 'च यवो धान्ये पृथकृतौ । यावोऽलक्ते पाकभेदे रेवा' ख-ग-घ. ९. 'तथा किंजल्कपक्ष्मणोः । गोपुच्छलोमस्वपि च लट्टा' ख. १०. 'बालके' ख-ग-घ. 'वालुकमोषधिः' इति टीका. ११. 'अंशो विभाजने प्रोक्त एकदेशेऽपि वस्तुनः । अंशु' ख-ग-घ. १२. 'कशा स्यादश्वताडन्यां रज्जौ मुखगुणेऽपि च' इत्यपीत: प्राक् ख-ग-घ. १३. रोगादौ' ग-घ. 'रागादयोऽविद्यास्मिताद्वेषाभिनिवेशाः' इति टीका. १४. 'पक्षान्तेष्टि: पक्षान्तयागः' इति टीका. १५. 'ऽब्धौ' ख-ग-घ. १६. 'छत्राद्यन्ते' ख-ग-घ.
For Private and Personal Use Only