________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः ।
श्मणि दम्भे भ्रमध्ये क्रौञ्चो द्वीपे खगे गिरौ। चर्चा स्याचर्ममुण्डायां चिन्तास्थासकयोरपि ।। ७२ चञ्चुः पञ्चाङ्गुले त्रोट्यां नीचः पामरखर्वयोः । मोचा शाल्मलिकदल्योर्मोचः शिनौ रुचितौ७३ स्पृहाभिष्वङ्गशोभासुविचः शुके वचौषधौ । शारिकायां विच्याल्यूर्योरवकाशे सुखाल्पयोः ॥ ७४ शचीन्द्राणीशतावर्योः शुचिः शुद्धे सितेऽनिले । ग्रीष्माषाढानुपहतेषूपधाशुद्धमत्रिणि ।। ७५ शृङ्गारे। सूच्यभिनये व्यधने करणे स्त्रियाम्।। अच्छो भन्लूके स्फटिकेऽमलेऽच्छाभिमुखेऽव्ययम्।७६ कच्छो द्रुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च । कच्छास्तु देशे कच्छा स्यात्परिधानापराञ्चले ॥ ७७ चीर्या वाराह्यांच गुच्छो गुञ्छे हारकलापयोः। पिच्छः पुच्छे पिच्छं वाजेपिच्छा शाल्मलिवेष्टके ७८ पैतौ पूगच्छटाकोशमण्डेष्वश्वपदामये । मोचायां पिच्छिले।म्लेच्छो जातिभेदेऽपभाषणे॥ ७९ अज छागे हरे विष्णौ रघुजे वेधसि स्मरेः। अब्जो धन्वन्तरौ चन्द्रे शलेऽन्जं पद्मसंख्ययोः-८० आजिः क्षणे समक्ष्मायां युध्यूर्जः कार्तिके बले: । कंजो वेधसि केशे च कंजं पीयूषपद्मयोः॥ ८१ कुञ्जो हनौ दन्तिदन्ते निकुळे च कुजो द्रुमे । आरे नरकदैत्ये च कुब्जो न्युजदुभेदयोः ॥ ८२ खजा दर्वीमथोः खर्जुः खजूरीकीटकण्डुषुः। गञ्जो भाण्डागारे रीढाखन्योर्गजा सुरागृहे।॥ ८३ गुञ्जा तु कृष्णलायां स्यात्पटहे मधुरध्वनौ।। द्विजो विप्रक्षत्रिययोर्वैश्ये दन्ते विहंगमे ॥ ८४ द्विजा भार्गीरेणुकयोर्ध्वजः पूर्वदिशो गृहे । शिश्ने चिह्ने पताकायां खट्वाङ्गे शौण्डिकेऽपि च ॥ ८५ निजो नित्ये स्वकीये च न्युजः कुब्जे कुंशे स्रुचि । अधोमुखेऽपि चा न्युजं कर्मरङ्गतरोः फले॥८६ प्रजा लोके संततौ च पिञ्जा तूलहरिद्रयोः।। पिञ्जो व्यग्रे वधे पिङ्ख बले बीजं तु रेतसि ॥ ८७ स्यादाधाने च तत्त्वे च हेतावङ्खरकारणे । भुजो बाहौ करे मर्जूः शुद्धौ च रजकेऽपि च ॥ ८८ राजी रेखायां पनौ च रुजा त्वामयभङ्गयोः।। लञ्जः पट्टे च कच्छे च लाजः स्यादातण्डुले। ॥८९ लाजास्तु भृष्टांनाः स्युर्लाजं पुनरुशीरके । व्रजोऽध्वगोष्ठसंघेषु। वणिग्वाणिज्यजीविनि।॥ ९० वाणिज्ये करणभेदे वाजं सर्पिषि वारिणि । यज्ञान्ने वाजस्तु पक्षे मुनौ निस्वनवेगयोः ॥ ९१ व्याजः शाठ्येऽपदेशे च सज्जौ संनद्धसंभृतौ । सञ्जो ब्रह्मशिवौ प्रज्ञः प्राज्ञ प्रज्ञा तु शेमुषी॥९२ यज्ञः स्यादात्मनि मखे नारायणहुताशयोः ।। संज्ञा नामनि गायत्र्यां हस्ताद्यैरर्थसूचने ॥ ९३ चेतनार्कस्त्रियोरट्टो हट्टाहालकयो शे । चतुष्कभक्तयोरिष्टमीप्सिते ऋतुकर्मणि ॥ ९४ पूज्ये प्रेयसि संस्कारे योगेऽथेष्टिमखेच्छयोः । संग्रहश्लोकेऽथा कटो गजगण्डे कटौ भृशम् ॥ ९५ शवे शवरथौषध्योः क्रियाकारश्मशानयोः । किलिने समये चापि कष्टं गहनकृच्छ्योः ॥ ९६ कटकार्ये मत्सरे च दूषणे च कटू रसे । तिक्ते प्रियङ्गुसुरभिकटुकाराजिकास्वपि ॥ ९७ कुटः कोटे शिलाकुट्टे गेहे घटेकुटी सुरा । चित्रगुच्छः कुम्भदासी कूटं पूर्द्वारयन्त्रयोः ॥ ९८ मायादम्भाद्रिशृङ्गेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोधने राशौ कृष्टिः कर्षणधीमतोः॥ ९९ कोटयुत्कर्षाटनीसंख्यात्रिषु खटस्तृणे कफे । टङ्केऽन्धकूपे प्रहारे खाटिः शवरथे किणे ॥ १०० एकाहेऽथ खेटः स्याग्रामभेदे कफेऽधमे । स्फारे मृगव्ये गृष्टिस्तु सकृत्सूतगवी भवेत् ॥ १०१ वराहक्रन्तिा चा घटा घटने गजसंहतौ । गोष्ठयां घटस्विभशिरः कूटे समाधिकुम्भयोः ॥ १०२
१. 'पटाञ्चले' ख. २. 'पिच्छस्तुच्छे' ख. ३. 'पतिपूग' ख-ग-घ. ४. 'कुशस्रुचि' क. ५. 'मर्जः' ख. ६. 'धान्ये' ख. ७. 'घृते च' ख. ८. 'यज्ञान्ते' 'क-ख. ९ 'तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्' इति वाक्यव्याख्यायां 'वाजोऽन्नम्' इति मीमांसकैरुक्तत्वात्. १०. 'कान्ता' ख-ग-ध.
For Private and Personal Use Only