________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । उद्भिदः खञ्जनाश्वोपपादुका देवनारकाः । रसयोनय इत्यष्टावुद्भिदुद्भिज्जमुद्भिदम् ॥ १३५७
इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां तिर्यकाण्डश्चतुर्थः ॥ ४ ॥ स्युर्नारकास्तु परेतप्रेतयात्यातिवाहिकाः । आजूविष्टिर्यातना तु कारणा तीव्रदेवना ॥ नरकस्तु नारकः स्यान्निरयो दुर्गतिश्च सः । घनोदधिधनवाततनुवातनभःस्थिताः ॥ १३५९ रत्नशर्करावालुकापङ्कधूमतमःप्रभाः। महातमःप्रभा चेत्यधोधो नरकभूमयः ॥
१३६० क्रमात्पृथुतराः सप्ताथ त्रिंशत्पञ्चविंशतिः । पञ्च पञ्चदश त्रीणि लक्षाण्यूनं च पञ्चभिः ॥ १३६१ लक्षं पञ्चैव नरकावासाः सीमन्तकादयः । एतासु स्युः क्रमेणाथ पातालं वडवामुखम् ॥ १३६२ बलिवेश्माधोभुवनं नागलोको रसातलम् । रन्धं विलं नियंथनं कुहरं शुषिरं शुषिः ॥ १३६३ छिद्रं रोपं विवरं च निम्नं रोकं वपान्तरम् । गर्तश्वभ्रावटागाधदरास्तु विवरे भुवः ॥ १३६४
__इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां नरककाण्डः पञ्चमः ॥ ५ ॥ स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत् । जीवाजीवाधारक्षेत्रं लोकोऽलोकस्ततोऽन्यथा ॥१३६५ क्षेत्रज्ञ आत्मा पुरुषश्चेतनः स पुनर्भवी । जीवः स्यादसुमान्सत्वं देहेभृज्जन्युजन्तवः ॥ १३६६ उत्पत्तिर्जन्मजनुषी जननं जनिरुद्भवः । जीवेऽसुजीवितप्राणा जीवातुर्जीवनौषधम् ॥ १३६७ श्वासस्तु श्वसितं सोऽन्तर्मुख उच्छास आहरः । आनो बहिर्मुखस्तु स्यान्निःश्वासः पान एतनः॥१३६८ आयुर्जीवितकालोऽन्तःकरणं मानसं मनः । हृच्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले ॥ १३६९ मनसः कर्म संकल्पः स्यादथो,शर्मनिर्वृतिः । सातं सौख्यं सुखं दुःखं खसुखं वेदना व्यथा।।१३७० पीडा बाधातिराभीलं कृच्छं कष्टं प्रसूतिजम् । आमनस्यं प्रगाढं स्यादाधिः स्यान्मानसी व्यथा॥१३७१ सपत्राकृतिनिष्पत्राकृती त्वत्यन्तपीडने । भुज्जाठराग्निजा पीडा व्यापादो द्रोहचिन्तनम् ॥ १३७२ उपज्ञा ज्ञानमाद्यं स्याचर्चा संख्या विचारणा । वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥१३७३ निर्णयो निश्चयोऽन्तः संप्रधारणा समर्थनम् । अविद्याहंमत्यज्ञाने भ्रान्तिर्मिथ्यामतिर्धमः ॥ १३७४ संदेहद्वापरारेका विचिकित्सा तु संशयः । परभागो गुणोत्कर्षों दोषे त्वादीनवाश्रवौ ॥ १३७५ खाद्रूपं लक्षणं भावश्चात्मप्रकृतिरीतयः । सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत् ॥ १३७६ शीलं सतत्त्वं संसिद्धिरवस्था त दशा स्थितिः । स्नेहः प्रीतिः प्रेम हार्दै दाक्षिण्यं त्वनुकूलता॥१३७७
विप्रेतिसारोऽनुशयः पश्चात्तापोऽनुतापश्च । अवधानसमाधानप्रणिधानानि तु समाधौ स्युः ॥
१३७८ धर्मः पुण्यं वृषः श्रेयः सुकृते नियतौ विधिः । दैवं भाग्यं भागधेयं दिष्टं चायस्तु तच्छुभम् ॥१३७९ अलक्ष्मीनितिः कालकर्णिका स्यादथाशुभम् । दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः । अंहः कल्कमधं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ त्रिवर्गा धर्मकामार्थाश्चतुर्वर्गः समोक्षकाः । बलतूर्याश्चतुर्भद्रं प्रमादोऽनवधानता ॥ १३८२ छन्दोऽभिप्राय आकृतं मतभावाशया अपि । हृषीकमक्षं करणं स्रोतः खं विषयीन्द्रियम् ॥ १३८३ बुद्धीन्द्रियं स्पर्शनादि पाण्यादि तु क्रियेन्द्रियम् । स्पर्शादयस्त्विन्द्रियार्थी विषया गोचरा अपि ॥१३८४
१. यौगिकत्वात्-नारकिक-नैरयिक-नारकीयादयः. २. प्रभाशब्दः प्रत्येकं रतादिभिरन्वयः. ३. दन्त्यादिरित्येके. ४. जीवोऽपि. ५. यौगिकत्वात्-देहभाक् शरीरीत्यादयः ६. अदन्तोऽपि. ७. जीवातुरपि. ८. अनिन्द्रियमपि. ९. विकल्पोऽपि. १०. शर्ममपि. ११. स्वशब्दो रूपादिभिरन्वेति. १२. विप्रतीसारोऽपि. ११. अर्था अपि.
For Private and Personal Use Only