________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ तिर्यकाण्डः।
वङ्गं त्रपुः स्वर्णजनागजीवने मृद्वङ्गरङ्गे गुरुपत्रपिञ्चटे । स्याञ्चक्रसंज्ञं तमरं च नागजं कस्तीरमालीनकसिंहले अपि ॥ १०४२
स्याद्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकं. ___खरं च हिमांशुहंसकुमुदाभिख्यं सुवर्ण पुनः । स्वर्ण हेमहिरण्यहाटकवसून्यष्टापदं काञ्चनं कल्याणं कनकं महारजतरैगाङ्गेयरुक्माण्यपि ॥
१०४३ कलधौतलोहोत्तमवह्निवीजान्यपि गारुडं गैरिकजातरूपे । तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तवरकर्बुराणि ॥
१०४४ जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् । हिरण्यकोशाकुप्यानि हेम्नि रूप्ये कृताकृतेः ॥ १.०४५ कुष्यं तु तहयादन्यहूप्यं तद्यमाहतम् । अलंकारसुवर्णं तु शृङ्गी कनकमायुधम् ॥ १०४६ रजतं च सुवर्ण च संश्लिष्टे घनगोलकः । पित्तलारेऽधारकूटः कपिलोहं सुवर्णकम् ॥ .., १०४७ रिरी रीरी च रीतिश्च पीतलोहं सुलोहकम् । ब्राह्मी तु राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी ॥ १०४८ कांस्ये विद्युत्प्रियं घोषं प्रकाशं वङ्गशुल्वजम् । घण्टाशब्दमसुराहं रवणं लोहज मलम् ॥ १०४९ सौराष्ट्र के पश्चलोहं वर्तलोहं तु वर्तकम् । पारदः पारतः सूतो हरबीजं रसश्चलः ॥ १०५० अभ्रकं स्वच्छपत्रं खं मेघाख्यं गिरिजामले । स्रोतोञ्जनं तु कापोतं सौवीरं कृष्णयामुने ॥ १०५१ अथ तुत्थं शिखिग्रीवं तुत्थाञ्जनमयूरके । मूषातुत्थं कांस्यनीलं हेमतारं वितुन्नकम् ॥ १०५२ स्यात्तु कर्परिकातुत्थममृतासङ्गमञ्जनम् । रसगर्भ तार्यशैलं तुत्थे दारिसोद्भवे ॥ १०५३ पुष्पाञ्जनं रीतिपुष्पं पौष्पकं पुष्पकेतु च | माक्षिकं तु कदम्बः स्याचक्रनामाजेनामके ॥ १०५४ ताप्ये नदीनः कामारिस्तारारिविटमाक्षिकः । सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती॥१०५५ आढकी तुबरी कंसोद्भवा काक्षी मृदाह्वया । कासीसं धातुकासीसं खेचरं धातुशेखरम् ॥ १०५६ द्वितीयं पुष्पकासीसं कंसकं नयनौषधम् । गन्धाश्मा शुल्वपामाकुष्टॉरिर्गन्धिकगन्धकौ ॥ १०५७ सौगन्धिकः शूकपुच्छो हरितालं तु पिञ्जरम् । विडालकं विस्रगन्धि खजूरं वंशपत्रकम् ॥ १०५८ आलपीतनतालानि गोद॑न्तं नटमण्डनम् । वङ्गारिलॊमहृच्चाथ मनोगुप्ता मनःशिला ॥ १०५९ करवीरा नागमाता रोचनी रसनेत्रिका | नेपाली कुनटी गोला मनोबा नागजिविका ॥ १०६० सिन्दूरं नाग नागं रक्तं शृङ्गारभूषणम् । चीनपिष्टं हंसपादकुरुविन्दे तु हिङ्गुलः ।। १०६१ शिलाजतु स्यागिरिजमर्थ्य गैरैयमश्मजम् । क्षारः काचः कुलाली तु स्याच्चक्षुष्या कुलस्थिका॥१०६२ बोलो गन्धरसः प्राणः पिण्डो गोपरस: शशः । रत्नं वसु मणिस्तत्र वैदूर्य बालवायजम् ॥ १०६३ मरकतं त्वमगर्भ गारुत्मतं हरिन्मणिः । पद्मरागे लोहितकलक्ष्मीपुष्पारुणोपेलाः ॥ १०६४ नीलमणिस्त्विन्द्रनीलः सूचीमुखं तु हीरकः । वरारकं रत्नमुख्यं वपर्यायनाम च ॥ १०६५ विराटजो राजपट्टो राजावर्तोऽथ विद्रुमः । रक्ताङ्को रक्तकन्दश्च प्रवालं हेमकन्दलः ॥ १०६६ सूर्यकान्तः सूर्यमणिः सूर्याइमा दहनोपलः । चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः ॥ १०६७
१. चपलोऽपि. २. वैष्णवोऽपि. ३. अरिशब्दः शुल्वादिभिरन्वेति. ४. गोपित्तमपि. ५. नेपाल्यपि. ६. शृङ्गारमपि. ७. हिङ्गलुरपि. ८. गोपो रसोऽपि. ९. शोणरत्नमपि.
For Private and Personal Use Only