________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । कंधरा धमनिीवा शिरोधिश्च शिरोधरा । सा त्रिरेखा कम्बुग्रीवावटु_टा कृकाटिका ॥ ५८६ कृकस्तु कंधरामध्यं कृकपाौँ तु वीतनौ । ग्रीवाधमन्यौ प्राग्नीले पश्चान्मन्ये कलम्बिके ॥ ५८७ ‘गलो निगरणः कण्ठः काकलकस्तु तन्मणिः । अंसो भुजशिरः स्कन्धो जत्रु संधिरुरोंऽसगः ॥५८८ भुजो वाहुः प्रवेष्टो दो हाथ भुजकोटरः । दोर्मूलं खण्डिकः। कक्षा पार्श्व स्यादेतयोरधः ॥ ५८९ कफोणिस्तु भुजामध्यं कफणिः कूपरश्च सः । अधस्तस्या मणिबन्धात्प्रकोष्टः स्यात्कलाचिका ॥५९० प्रगण्डः कूर्परासान्तः पञ्चशाखः शयःशमः । हस्तः पाणिः करस्यादौ मणिबन्धो मणिश्च सः ॥५९१ करभोऽस्मादाकनिष्ठं करशाखाङ्गुली समे । अङ्गुरिश्चाङ्गुलोऽङ्गुष्टस्तर्जनी तु प्रदेशिनी ॥ ५९२ ज्येष्ठा तु मध्यमा मध्या सावित्री स्यादनामिका । कनीनिका तु कनिष्ठावहस्तो हस्तपृष्टतः ॥ ५९३ कामाशो महाराजः करजो नखरो नखः । करशूकोभुजाकण्टः पुनर्भवपुनर्नवौ ॥ ५९४ प्रदेशिन्यादिभिः सार्धमङ्गुष्ठे वितते सति । प्रादेशतालगोकर्णवितस्तयो यथाक्रमम् ॥ ५९५ प्रसारिताङ्गुलौ पाणौ चपेटः प्रतलस्तलः । प्रहस्तस्तालिकस्तालः सिंहतालस्तु तौ युतौ ॥ ५९६ संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुस्तुर्मुचुट्यपि । संग्राहश्चार्धमुष्टिः स्यात्खटकः कुब्जितः पुनः ॥ ५९७ पाणिः प्रसृतः प्रमृतिस्तौ युताव अलिः पुनः । प्रसृते तु जलाधारे गण्डूषश्रुलुकश्चलुः ।।०५९८ हस्तः प्रामाणिको मध्येमध्यमाङ्गुलिकूपरम् । बद्धमुष्टिरसौ रनिररत्निनिष्कनिष्ठिकः।। ५९९ व्यामव्यायामन्यग्रोधास्तिर्यग्बाहू प्रसारितौ । ऊर्वीकृतभुजापाणिनरमानं तु पौरुषम् ॥ ६०० दन्नद्वयसमात्रास्तु जान्वादेस्तत्तदुन्मिते । रीढकः पृष्टवंशः स्यात्पृष्ठं तु चरमं तनोः॥ ६०१ पूर्वभाग उपस्थोऽङ्कः क्रोड उत्सङ्ग इत्यपि।। क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम् ॥ ६०२ स्तनान्तरं हृदयं स्तनौ कुचौ पयोधरौ । उरोजौ च चूचुकं तु स्तनान्तशिखामुखाः ।। ६०३ तुन्दं तुन्दिगर्भकुक्षी पिचण्डो जठरोदरे । कालखण्डं कालखनं कालेयं कालकं यकृत् ॥ ६०४ दक्षिणे तिलकं क्लोम वामे तु रक्तफेनजः । पुष्पसः स्यादथ प्लीहा गुल्मोऽत्रं तु पुरीतति ॥ ६०५ रोमावली रोमलता नाभिः स्यात्तुन्दकृपिका । नाभेरधो मूत्रपुटं वस्तिमूत्राशयोऽपि च ॥ ६०६ मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः । श्रोणिः कलत्रं कटीरंकाञ्चीपदं ककुद्मती ॥ ६०७ नितम्बारोही स्त्रीकट्याः पश्चाज्जधनमग्रतः । त्रिकं वंशाधस्तत्पार्श्वकूपको तु कुकुन्दरे॥ ६०८ पूतौ स्फिजौ कटिप्रोथौ वराङ्गं तु च्युतिर्बुलिः । भगोऽपत्यपथो योनिः स्मरान्मन्दिरकूपिके ॥ ६०९ स्त्रीचिह्नमथ पुंश्चिह्न मेहनं शेपशेपसी । शिश्नं मेढ़ः कामलता लिङ्गं च द्वयमप्यदः ॥ ६१० गुह्यप्रजननोपस्था गुह्यमध्यं गुलो मणिः । सीवनी तदधःसूत्रं स्याँदण्डं पेलमण्डकः ॥ ६११ मुष्कोऽण्डकोषो वृषणोऽपानं पायर्गदं च्युतिः। अधोमर्म शकृहारं त्रिबलीकवली अपि ॥ ६१२ विटपं तु महावीज्यमन्तरा मुष्कवङ्क्षणम् । अरुसंधिर्वणः स्यात्सक्थ्यूरुस्तस्य पर्व तु॥ ६१३ जानुर्नलकीलोऽष्टीवान्पश्चाद्भागोऽस्य मन्दिरः । कपोली त्वग्रिमो जङ्घा प्रमृता नलकिन्यपि ॥६१४ प्रतिजङ्घा त्वग्रजङ्घा पिण्डिका तु पिचण्डिका । गुल्फस्तु चरणग्रन्थिर्युटिको घुण्टको घुटः ॥ ६१५ चरणः क्रमणः पादः पदंहिँश्चलनः क्रमः । पादमूलं गोहिरं स्यात्पाणिस्तु घुटयोरधः ॥ ६१६ पादाग्रं प्रपदं क्षिप्रं त्वङ्गुष्ठाङ्गुलिमध्यतः । कूर्च क्षिप्रस्योपयह्रिस्कन्धः कूर्चशिरः समे ॥ ६१७
१. कुर्परोऽपि. २. संहताल इत्यपि. ३. चलुकोऽपि. ४. यौगिकत्वादुरसिजवक्षोजादयः. ५. स्तनशब्दस्य वृ न्तादिभिरन्वयः. ६. तेन स्मरमन्दिरं, स्मरपिका. ७. आण्डोऽपि. ८. पेलकोऽपि. ९. अङ्गिरपि.
For Private and Personal Use Only