________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । त्रिनेत्रपञ्चेषुसप्तपलाशादिषु योजयेत् । गुणशब्दो विरोध्यर्थं नादिरितरोत्तरः ॥
अभिधत्ते यथा कृष्णः स्यादसितः सितेतरः । वार्ष्यादिषु पदे पूर्वे वाडवाग्न्यादिषूत्तरे ॥ १७ द्वयेऽपि भूभदायेषु पर्यायपरिवर्तनम् । एवं परावृत्तिसहा योगाः स्युरिति यौगिकाः ॥ १८ मिश्राः पुनः परावृत्त्यसहा गीर्वाणसंनिभाः। प्रवक्ष्यन्तेऽत्र लिँङ्गं तु ज्ञेयं लिङ्गानुशासनात् ॥ १९ देवाधिदेवाः प्रथमे काण्डे देवा द्वितीयके।। नरस्तृतीये तिर्यश्चस्तुर्य एकेन्द्रियादयः॥ २० एकेन्द्रियाः पृथिव्यम्बुतेजोवायुमहीरुहः । कृमिपीलकलूताद्याः स्युद्वित्रिचतुरिन्द्रियाः ॥ २१ पञ्चेन्द्रियाश्चेभकेकिमत्स्याद्याः स्थलखाम्बुगाः । पञ्चेन्द्रिया एव देवा नरा नैरयिका अपि ॥ २२ नारकाः पञ्चमे साङ्गाः षष्टे साधारणाः स्फुटम् । प्रस्तोष्यन्तेऽव्ययाश्चात्र वेन्ताथादी न पूर्वगौ ॥२३
१. "व्युत्पत्त्यन्तरमाह-गुणवाची शब्दो नपूर्व इतरशब्दोत्तरश्च विरोधिनमर्थमभिधत्ते । यथा-असितः, सितेतरः, कृष्णः ॥ एवम्---अकृशः, कृशेतरश्च स्थूल इत्यादि ॥' इति विवृतिः. २. "व्युत्पत्त्यन्तरमाह-वार्ष्यादिषु शब्देषु पूर्वस्मिन्नेव पदे पर्यायस्य परिवर्तनं भवति ॥ यथा—वाधिः, जलधिः, तोयधिः ॥ आदिशब्दग्रहणात् जलदः, तोयदः, नीरदः इत्यादि । वडवाम्यादिषु शब्देषु उत्तरस्मिन्नेव पदे पर्यायपरिवर्तनम् । यथा-वडवामिः, वडवानलः, वडवावह्निः ॥ आदिशब्दात् सरोजम्, सरोरुहम् , इत्यादि ॥ भूभृदायेषु शब्देषु द्वयेऽपि पूर्वत्र उत्तरत्र च पदे पर्यायस्य परिवर्तनम् । यथा--भूभृत् , उर्वीभृत् , भूधरः, उर्वीधरः ॥ आद्यशब्दात् सुरपतिः, देवराजः, इत्यादयः ॥” इति विवृतिः. ३. "एवमिति पूर्वत्र उत्तरत्र उभयत्र च पदे परावृत्तिं पर्यायपरिवर्तनं सहन्ते क्षमन्ते परावृत्तिसहा वादियः शब्दा योगाद् अन्वयाद् भवेयुः इति यौगिकाः ॥” इति विवृतिः. ४. "गीर्वाणादयः शब्दाः पूर्वत्र उत्तरत्र च पदे पर्यायपरावृत्तिमसहमाना मिश्रा योगयुक्ता रूढिमन्तश्च अत्राभिधानचिन्तामणौ नाममालायां प्रवक्ष्यन्ते ॥ संनिभग्रहणाद् दशरथ-कृतान्त-प्रभृतयः ॥” इति विवृतिः. ५. "लिङ्गमिति ॥ पुंलिङ्ग स्त्रीलिङ्गं नपुंसकलिङ्गं चास्मदुपज्ञलिङ्गानुशासनात् ज्ञेयं निर्णेतव्यम् । अत एवास्माभिरमरकोशाद्यभिधानमालास्विव लिङ्गनिर्णयो नोक्तः ॥ इह तु विनेयजनानुग्रहार्थं संदिग्धलिङ्गानां नानालिङ्गानां च शब्दानां लिङ्गनिर्णयो वक्ष्यते ॥” इति विवृतिः. ६. "इह हि 'मुक्तगतिः, देवगतिः, मनुष्यगतिः, तिर्यग्गतिः, नारकगतिः' इति जीवानां पञ्च गतयो भवन्ति । तद्भेदा जीवा अपि 'मुक्ताः, देवाः, मनुष्याः, तिर्यञ्चः, नारकाच' इति पञ्चधा भवन्ति । ततोऽभिधास्यमानरूढयौगिकमिश्रशब्दविभागमुक्त्वा प्रथमादिकाण्डेष्वभिधास्यमानमुक्तादिनामक्रमनिर्देशमाह-देवाधिदेवा अर्हन्तो व. र्तमानातीतानागताः । तद्वाचकशब्दा अपि देवाधिदेवाः, वाच्यवाचकयोरभेदोपचारात् ॥ एवं वक्ष्यमाणदेवादिध्वपि योज्यम् ॥ साझा इति सर्वत्र संबध्यते ॥ ततः प्रथमे काण्डे गणधराद्यङ्गैः सह देवाधिदेवाः सर्वप्राधान्यात्॥ द्वितीये काण्डे देवाः साङ्गाः ॥ तृतीये काण्डे मनुष्याः साङ्गाः ॥ चतुर्थे तिर्यञ्चः साङ्गाः । ते च एकेन्द्रियादयः। तत्र एकं स्पर्शनम् इन्द्रियं येषां ते एकेन्द्रियाः पृथ्वीकायादयः पञ्च । तत्र पृथ्वीकायोऽनेकविधः---शुद्धपृथ्वीशकरावालुकादिः । अप्कायो हिमादिः । तेजःकायोऽङ्गारादिः । वायुकाय उत्कलिकादिः । वनस्पतिकायः शैवलादिः ॥ द्वे स्पर्शन-रसने, त्रीणि स्पर्शनरसनघ्राणानि, चत्वारि तान्येव चक्षुःसहितानि, इन्द्रियाणि येषां ते तथा । ततो द्वीन्द्रियाः कृम्यादयः, त्रीन्द्रियाः पीलकादयः, चतुरिन्द्रिया लूतादयः ॥ पञ्च स्पर्शादीनि श्रोत्रसहितानि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः । ते च त्रिविधाः-स्थलचराः, खचराः, अम्बुचराश्च । तत्र स्थलचरा इभाद्याः, खचराः केकिप्रभृतयः, अम्बुचरा मत्स्याद्याः ॥ देवा नरा नारकाच पञ्चेन्द्रिया एव । न तु तिर्यञ्च इव एकद्वि. त्रिचतुरिन्द्रिया अपि ॥ पञ्चमे काण्डे नारकाः साङ्गाः ॥ षष्ठे काण्डे साधारणाः सामान्यवाचिनः ॥ अव्ययाश्च अत्रेति षष्ठ एव काण्डे प्रस्तोष्यन्ते प्रक्रम्यन्त इति ॥” इति विवृतिः. ७. "तुशब्दोऽन्ते यस्यासौ त्वन्तः, अथशब्द आदिर्यस्यासावथादिश्च शब्दः पूर्वं न गच्छति । अग्रिमेण संबध्यते' इत्यर्थः ॥ न्यायसिद्धं चैतत् । तुना पूर्वस्माद्विशेषद्योतनात् । अथशब्देन चार्थान्तरारम्भात् । यथा-'स्यादनन्तजिदनन्तः सुविधिस्तु पुष्पदन्तः' इति, 'मुक्तिमोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः' इति ॥ भ्रान्तिस्थानविषये चैतत्' इति ॥” इति विवृतिः,
For Private and Personal Use Only