________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ देवाधिदेवकाण्डः ।
आश्रयात्सद्मपर्यायशयवासिसदादयः । वैध्याद्भिद्वेषिजिद्धातिधुप्रिपुध्वंसिशासनाः ॥ अप्यन्तकारिदमनदर्पच्छिन्मथनादयः । विवक्षितो हि संबन्ध एकतोऽपि पदात्ततः ॥ प्राक्प्रदर्शित संबन्धिशब्दा योज्या यथोचितम् । दृश्यते खलु वाह्यत्वे वृषस्य वृषवाहनः ॥ स्वत्वे पुनर्वृषपतिर्धार्यत्वे वृषलाञ्छनः । अंशोर्धार्यत्वेंऽशुमाली स्वत्वेंऽशुपतिरंशुमान् ॥ वध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुक्शिखी । चिद्वैर्व्यक्तैर्भवे व्यक्तेर्जातिशब्दोऽपि वाचकः ॥ तथाह्यगस्तिपूता दिग्दक्षिणाशा निगद्यते । अयुग्विषमशब्दौ त्रिपञ्चसप्तादिवाचकौ ॥
१०
११
१२
१३
१४
१५
गामिप्रभृतयः तद्वतां वाह्यवतां वाहयितॄणां नाम आहुः ॥ यथा - वृषगामी, वृषयानः, वृषासन, शंभुः ॥ तस्य हि वृषो यानम् इति रूढिः || आदिशब्दाद् वृषवाहन इत्यादयोऽपि ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा---- ' नरवाहनः कुबेर: ' तथा 'नरगामी, नरयानः' इति ॥” इति विवृतिः ९. “ ज्ञातेयसंबन्धे यथा— ज्ञातिः स्वजन:, तद्वाचिनः शब्दात् परे स्वस्रादयस्तद्वतां ज्ञातेयवतां ज्ञातीनां नाम आहुः || स्वस्रादीनां च ज्ञातिविशेषवाचित्वाज्यातिविशेषादेव प्रयोगो यथा — यमस्वसा यमुना । हिमवद्दुहिता गौरी । चन्द्रात्मजो बुधः । गदाग्रज इन्द्रावरजश्च वि
। यमादयो हि यमुनादीनां भ्रात्रादिज्ञातय इति रूढिः || आदिशब्दात्सोदरादयो गृह्यन्ते ॥ यथा --- कालिन्दीसोदरो यमः ॥ 'कविरूढ्या' इत्येव । नहि भवति यथा 'यमुना यमस्वसा', 'तथा शनिस्वसापि ॥” इति विवृतिः.
For Private and Personal Use Only
"
१. " आश्रयाश्रयिसंबन्धे यथा - आश्रयो निवासः तद्वाचिनः शब्दात् परे सद्मपर्यायाः शयवासिसदादयश्च तद्वताम् आश्रयवताम् आश्रितानां नाम आहुः ॥ यथा — घुसद्मानः घुसदनाः, दिवौकसः । दिवशब्दो वृत्तावकारान्तोऽप्यस्तीति । ध्रुवसतयः, दिवाश्रयाः, द्युशयाः, ध्रुवासिनः सदः, देवाः ॥ द्यौः स्वर्गः, स च ते - षामाश्रयः इति रूढिः ॥ ' कविरूढ्या' इत्येव । नहि भवति यथा सद्मानो देवा:, तथा भूमिसद्मानो मनुष्याः इति ॥” इति विवृतिः. २. "वध्यवधकभाव संबन्धे यथा— बध्यो घात्यः तद्वाचिनः शब्दात् परे भिदादयः अन्तकार्यादयोऽपि तद्वतां वधकानां नाम आहुः ॥ यथा - पुरभित्, पुरद्वेषी, पुरजित्, पुरघाती, पुरभुक्, पुरारिः, पुरध्वंसी, पुरशासनः, पुरान्तकारी, पुरदमनः, पुरदर्पच्छित्, पुरमथनः शिवः ॥ ' तस्य हि पुरो वध्याः' इति रूढि || आदिशब्दात् — पुरदारी, पुरनिहन्ता, पुरकेतु:, पुरहा, पुरसूदनः, पुरान्तकः, पुरजयी, इति । वध्य इति वधामात्रेऽपि । तेन - कालियदमनः, कालियारिः, कालियशासनः, विष्णुः' इत्यादयोऽपि गृह्यन्ते ॥ ' - विरूढ्या' इत्येव । तेन कालियदमनादिवत् 'कालियघाती' इति न भवति ॥” इति विवृतिः ३. “उक्ताः स्वस्वामित्वादयः संबन्धाः । ते च यथा भिन्नद्रव्याश्रयास्तथैकद्रव्याश्रया अपि भवन्ति इति दर्शयितुमाह — विवक्षानिबन्धनो हि संबन्ध:, तत एकस्मादपि वृषादेः संबन्धिपदात् परे संबन्धान्तरनिबन्धना वाहनादयः शब्दा यथोचितं प्रयुज्यन्ते ॥” इति विवृति: ४. एतदेवाह – वाह्यवाहक भावसंबन्धे विवक्षायां यथा - ' वृषवाहनो रुद्र: ' इति भवति । तथा स्वस्वामिभावसंबन्धविवक्षायां 'वृषपतिः ' ॥ धार्यधारकभावसंबन्धविवक्षायां च ' वृषलाञ्छनः ' इत्यपि ॥ धार्यधारक संबन्धविवक्षायां यथा— 'अंशुमाली रविः' इति भवति । तथा -- स्वस्वामिभावसंबन्धविवक्षायाम् ‘अंशुपतिः, अंशुमान्' इत्यपि ॥ तथा - वध्यवधकभावसंबन्धे यथा - 'अहिरिपुर्मयूरः' । तथा —– भोज्यभोजकभावसंबन्धे ‘अहिभुक्' इत्यपि भवति ||" इति विवृति: ५. " संबन्धनिबन्धनां व्युत्पत्तिमुक्त्वा व्युत्पत्त्यन्तन्तरमाह — चिह्नर्विशेषणैर्व्यक्तैनिःसंदेहैर्जात्यभिधायकोऽपि शब्दो व्यक्तेर्वाचको भवेत् । व्यक्तेर्नामतां यातीत्यर्थः ॥ तथाहीत्यादिनोदाहरणमाह - अगस्तिना ऋषिविशेषेण पूता स्वस्थित्या पवित्रिता इति व्यक्तं चिह्नम् | तेन चिह्नितो 'दिक्' इति जातिशब्दो दक्षिणाशाया व्यक्तेरभिधायी भवति ॥ एवं 'सप्तर्षिता दिक् उत्तराशा,' 'अत्रेर्नयनसमुत्थं ज्योतिश्चन्द्रः' इत्यादयोऽपि ॥” इति विवृतिः. ६. " व्युत्पत्त्यन्तरमाह — त्रिपञ्च सप्तादिस्थाने अयुग्-विषम-शब्दौ त्रिनेत्रादिपदेषु योजनीयौ । यथा - त्रिनेत्रः, अयुनेत्रः, विषमनेत्रश्च शंभुः ॥ पञ्चेषुः, अयुगिषुः, विषमेषुश्च कामः । सप्तपलाशः, अयुक्पलाशः, विषमपलाशश्च सप्तपर्णः || आदिशब्दात् नवशक्तिः, अयुक्शक्तिः, विषमशक्तिश्च शंभुः ॥ एवं त्र्यक्ष- पञ्चवाण - सप्तच्छदादिष्वपि ॥” इति विवृतिः.